Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा स्तोत्रम् (अर्जुन कृतम्)

अर्जुन उवाच ।

नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि ।

कुमारि कालि कापालि कपिले कृष्णपिङ्गले ॥ १ ॥

भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते ।

चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ॥ २ ॥

कात्यायनि महाभागे करालि विजये जये ।

शिखिपिञ्छध्वजधरे नानाभरणभूषिते ॥ ३ ॥

अट्‍टशूलप्रहरणे खड्गखेटकधारिणि ।

गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥ ४ ॥

महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि ।

अट्‍टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥ ५ ॥

उमे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि ।

हिरण्याक्षि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥ ६ ॥

वेदश्रुतिमहापुण्ये ब्रह्मण्ये जातवेदसि ।

जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥ ७ ॥

त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् ।

स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥ ८ ॥

स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती ।

सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ ९ ॥

स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना ।

जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ १० ॥

कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।

नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ ११ ॥

त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च ।

सन्ध्या प्रभावती चैव सावित्री जननी तथा ॥ १२ ॥

तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।

भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥ १३ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि त्रयोविंशोऽध्याये अर्जुन कृत श्री दुर्गा स्तोत्रम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri durga stotram arjuna krutam