Skip to main content
पडताळणी प्रलंबित

श्री हाटकेश्वराष्टकम्

जटातटान्तरोल्लसत्सुरापगोर्मिभास्वरं

ललाटनेत्रमिन्दुनाविराजमानशेखरम् ।

लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं

नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ १ ॥

पुरान्धकादिदाहकं मनोभवप्रदाहकं

महाघराशिनाशकं अभीप्सितार्थदायकम् ।

जगत्त्रयैककारकं विभाकरं विदारकं

नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ २ ॥

मदीय मानसस्थले सदाऽस्तु ते पदद्वयं

मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम् ।

मदीय लोचनाग्रतः सदाऽर्धचन्द्रविग्रहं

नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ३ ॥

भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये

भजन्ति हाटकेश्वरं प्रमाणमात्र नागराः ।

धनेन तेज साधिकाः कुलेन चाऽखिलोन्नताः

नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ४ ॥

सदाशिवोऽहमित्यहर्निशं भजेत यो जनाः

सदा शिवं करोति तं न संशयोऽत्र कश्चन ।

अहो दयालुता महेश्वरस्य दृश्यतां बुधा

नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ५ ॥

धराधरात्मजापते त्रिलोचनेश शङ्करं

गिरीश चन्द्रशेखराऽहिराजभूषणेश्वरः ।

महेश नन्दिवाहनेति सङ्घटन्नहर्निशं

नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ६ ॥

महेश पाहि मां मुदा गिरीश पाहि मां सदा

भवार्णवे निमज्जतस्त्वमेव मेऽसि तारकः ।

करावलम्बनं झटित्यहोऽधुना प्रदीयतां

नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ७ ॥

धराधरेश्वरेश्वरं शिवं निधीश्वरेश्वरं

सुरासुरेश्वरं रमापतीश्वरं महेश्वरम् ।

प्रचण्ड चण्डिकेश्वरं विनीत नन्दिकेश्वरं

नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ८ ॥

हाटकेशस्य भक्त्या यो हाटकेशाष्टकं पठेत् ।

हाटकेश प्रसादेन हाटकेशत्वमाप्नुयात् ॥ ९ ॥

इति श्री हाटकेश्वराष्टकम् ।

sri hatakeshwara ashtakam