Skip to main content
पडताळणी प्रलंबित

श्री बाला त्रिपुरसुन्दरी सहस्रनाम स्तोत्रम्

श्रीदेव्युवाच ।

भगवन् भाषिताशेषसिद्धान्त करुणानिधे ।

बालात्रिपुरसुन्दर्याः मन्त्रनामसहस्रकम् ॥ १ ॥

श्रुत्वा धारयितुं देव ममेच्छावर्ततेऽधुना ।

कृपया केवलं नाथ तन्ममाख्यातुमर्हसि ॥ २ ॥

ईश्वर उवाच ।

मन्त्रनामसहस्रं ते कथयामि वरानने ।

गोपनीयं प्रयत्नेन शृणु तत्त्वं महेश्वरि ॥ ३ ॥

अस्य श्रीबालात्रिपुरसुन्दरी दिव्यसहस्रनाम स्तोत्रमहामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम श्रीबालात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे सहस्रनामस्तोत्र पारायणे विनियोगः ॥

करन्यासः –

ऐं अङ्गुष्ठाभ्यां नमः ।

क्लीं तर्जनीभ्यां नमः ।

सौः मध्यमाभ्यां नमः ।

ऐं अनामिकाभ्यां नमः ।

क्लीं कनिष्ठिकाभ्यां नमः ।

सौः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –

ऐं हृदयाय नमः ।

क्लीं शिरसे स्वाहा ।

सौः शिखायै वषट् ।

ऐं कवचाय हुम् ।

क्लीं नेत्रत्रयाय वौषट् ।

सौः अस्त्राय फट् ।

ध्यानम् ।

ऐङ्कारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं

सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गोज्ज्वलाम् ।

वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां

तां बालां त्रिपुरां भजे त्रिनयनां षट्चक्रसञ्चारिणीम् ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

अथ स्तोत्रम् –

ओं सुभगा सुन्दरी सौम्या सुषुम्णा सुखदायिनी ।

मनोज्ञा सुमना रम्या शोभना ललिता शिवा ॥ १ ॥

कान्ता कान्तिमती कान्तिः कामदा कमलालया ।

कल्याणी कमला हृद्या पेशला हृदयङ्गमा ॥ २ ॥

सुभद्राख्यातिरमणी सर्वा साध्वी सुमङ्गला ।

रामा भव्यवती भव्या कमनीयाऽतिकोमला ॥ ३ ॥

शोभाभिरामा रमणी रमणीया रतिप्रिया ।

मनोन्मनी महामाया मातङ्गी मदिराप्रिया ॥ ४ ॥

महालक्ष्मीर्महाशक्तिर्महाविद्यास्वरूपिणी ।

महेश्वरी महानन्दा महानन्दविधायिनी ॥ ५ ॥

मानिनी माधवी माध्वी मदरूपा मदोत्कटा ।

आनन्दकन्दा विजया विश्वेशी विश्वरूपिणी ॥ ६ ॥

सुप्रभा कौमुदी शान्ता बिन्दुनादस्वरूपिणी ।

कामेश्वरी कामकला कामिनी कामवर्धिनी ॥ ७ ॥

भेरुण्डा चण्डिका चण्डी चामुण्डा मुण्डमालिनी ।

अणुरूपा महारूपा भूतेशी भुवनेश्वरी ॥ ८ ॥

चित्रा विचित्रा चित्राङ्गी हेमगर्भस्वरूपिणी ।

चैतन्यरूपिणी नित्या नित्यानित्यस्वरूपिणी ॥ ९ ॥

ह्रीङ्कारकुण्डली धात्री विधात्री भूतसम्प्लवा ।

उन्मादिनी महामारी सुप्रसन्ना सुरार्चिता ॥ १० ॥

परमानन्दनिष्यन्दा परमार्थस्वरूपिणी ।

योगीश्वरी योगमाता हंसिनी कलहंसिनी ॥ ११ ॥

कला कलावती रक्ता सुषुम्नावर्त्मशालिनी ।

विन्ध्याद्रिनिलया सूक्ष्मा हेमपद्मनिवासिनी ॥ १२ ॥

बाला सुरूपिणी माया वरेण्या वरदायिनी ।

विद्रुमाभा विशालाक्षी विशिष्टा विश्वनायिका ॥ १३ ॥

वीरेन्द्रवन्द्या विश्वात्मा विश्वा विश्वादिवर्धिनी ।

विश्वोत्पत्तिर्विश्वमाया विश्वाराध्या विकस्वरा ॥ १४ ॥

मदस्विन्ना मदोद्भिन्ना मानिनी मानवर्धिनी ।

मालिनी मोदिनी मान्या मदहस्ता मदालया ॥ १५ ॥

मदनिष्यन्दिनी माता मदिराक्षी मदालसा ।

मदात्मिका मदावासा मधुबिन्दुकृताधरा ॥ १६ ॥

मूलभूता महामूला मूलाधारस्वरूपिणी ।

सिन्दूररक्ता रक्ताक्षी त्रिनेत्रा त्रिगुणात्मिका ॥ १७ ॥

वशिनी वाशिनी वाणी वारुणी वारुणीप्रिया ।

अरुणा तरुणार्काभा भामिनी वह्निवासिनी ॥ १८ ॥

सिद्धा सिद्धेश्वरी सिद्धिः सिद्धाम्बा सिद्धमातृका ।

सिद्धार्थदायिनी विद्या सिद्धाढ्या सिद्धसम्मता ॥ १९ ॥

वाग्भवा वाक्प्रदा वन्द्या वाङ्मयी वादिनी परा ।

त्वरिता सत्वरा तुर्या त्वरयित्री त्वरात्मिका ॥ २० ॥

कमला कमलावासा सकला सर्वमङ्गला ।

भगोदरी भगक्लिन्ना भगिनी भगमालिनी ॥ २१ ॥

भगप्रदा भगानन्दा भगेशी भगनायिका ।

भगात्मिका भगावासा भगा भगनिपातिनी ॥ २२ ॥

भगावहा भगाराध्या भगाढ्या भगवाहिनी ।

भगनिष्यन्दिनी भर्गा भगाभा भगगर्भिणी ॥ २३ ॥

भगादिर्भगभोगादिः भगवेद्या भगोद्भवा ।

भगमाता भगकृता भगगुह्या भगेश्वरी ॥ २४ ॥

भगदेहा भगावासा भगोद्भेदा भगालसा ।

भगविद्या भगक्लिन्ना भगलिङ्गा भगद्रवा ॥ २५ ॥

सकला निष्कला काली कराली कलभाषिणी ।

कमला हंसिनी काला करुणा करुणावती ॥ २६ ॥

भास्वरा भैरवी भासा भद्रकाली कुलाङ्गना ।

रसात्मिका रसावासा रसस्यन्दा रसावहा ॥ २७ ॥

कामनिष्यन्दिनी काम्या कामिनी कामदायिनी ।

विद्या विधात्री विविधा विश्वदा त्रिविधा विधा ॥ २८ ॥

सर्वाङ्गा सुन्दरी सौम्या लावण्या सरिदम्बुधिः ।

चतुराङ्गी चतुर्बाहुश्चतुरा चारुहासिनी ॥ २९ ॥

मन्त्रा मन्त्रमयी माता मणिपूरसमाश्रया ।

मन्त्रात्मिका मन्त्रमाता मन्त्रगम्या सुमन्त्रका ॥ ३० ॥

पुष्पबाणा पुष्पजैत्री पुष्पिणी पुष्पवर्धिनी ।

वज्रेश्वरी वज्रहस्ता पुराणी पुरवासिनी ॥ ३१ ॥

तारा च तरुणाकारा तरुणी ताररूपिणी ।

इक्षुचापा महापाशा शुभदा प्रियवादिनी ॥ ३२ ॥

सर्वगा सर्वजननी सर्वार्था सर्वपावनी ।

आत्मविद्या महाविद्या ब्रह्मविद्या विवस्वती ॥ ३३ ॥

शिवेश्वरी शिवाराध्या शिवनाथा शिवात्मिका ।

आत्मिका ज्ञाननिलया निर्भेदा निर्वृतिप्रदा ॥ ३४ ॥

निर्वाणरूपिणी पूर्णा नियमा निष्कला प्रभा ।

श्रीफला श्रीप्रदा शिष्या श्रीमयी शिवरूपिणी ॥ ३५ ॥

क्रूरा कुण्डलिनी कुब्जा कुटिला कुटिलालका ।

महोदया महारूपा मही माही कलामयी ॥ ३६ ॥

वशिनी सर्वजननी चित्रवासा विचित्रिका ।

सूर्यमण्डलमध्यस्था स्थिरा शङ्करवल्लभा ॥ ३७ ॥

सुरभिः सुमहः सूर्या सुषुम्णा सोमभूषणा ।

सुधाप्रदा सुधाधारा सुश्रीः सम्पत्तिरूपिणी ॥ ३८ ॥

अमृता सत्यसङ्कल्पा सत्या षड्ग्रन्थिभेदिनी ।

इच्छाशक्तिर्महाशक्तिः क्रियाशक्तिः प्रियङ्करी ॥ ३९ ॥

लीला लीलालयाऽऽनन्दा सूक्ष्मबोधस्वरूपिणी ।

सकला रसना सारा सारगम्या सरस्वती ॥ ४० ॥

परा परायणी पद्मा परनिष्ठा परापरा ।

श्रीमती श्रीकरी व्योम्नी शिवयोनिः शिवेक्षणा ॥ ४१ ॥

निरानन्दा निराख्येया निर्द्वन्द्वा निर्गुणात्मिका ।

बृहती ब्राह्मणी ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी ॥ ४२ ॥

धृतिः स्मृतिः श्रुतिर्मेधा श्रद्धा पुष्टिः स्तुतिर्मतिः ।

अद्वयाऽऽनन्दसम्बोधा वरा सौभाग्यरूपिणी ॥ ४३ ॥

निरामया निराकारा जृम्भिणी स्तम्भिनी रतिः ।

बोधिका कमला रौद्री द्राविणी क्षोभिणी मतिः ॥ ४४ ॥

कुचेली कुचमध्यस्था मध्यकूट गति प्रिया ।

कुलोत्तीर्णा कुलवती बोधा वाग्वादिनी सती ॥ ४५ ॥

उमा प्रियव्रता लक्ष्मीर्वकुला कुलरूपिणी ।

विश्वात्मिका विश्वयोनिः विश्वासक्ता विनायका ॥ ४६ ॥

ध्यायिनी नादिनी तीर्था शाङ्करी मन्त्रसाक्षिणी ।

सन्मन्त्ररूपिणी हृष्टा शाङ्करी सुरशङ्करी ॥ ४७ ॥

सुन्दराङ्गी सुरावासा सुरवन्द्या सुरेश्वरी ।

सुवर्णा वर्णसत्कीर्तिः सवर्णा वर्णरूपिणी ॥ ४८ ॥

ललिताङ्गी वरिष्ठा श्रीरस्पन्दा स्पन्दरूपिणी ।

शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥ ४९ ॥

जयिनी विश्वजननी विश्वनिष्ठा विलासिनी ।

भ्रूमध्याऽखिलनिष्ठाद्या निर्गुणा गुणवर्धिनी ॥ ५० ॥

हृल्लेखा भुवनेशानी भवना भवनात्मिका ।

विभूतिर्भुतिदा भूतिः सम्भूतिर्भूतिकारिणी ॥ ५१ ॥

ईशानी शाश्वती शैवी शर्वाणी शर्मदायिनी ।

भवानी भावगा भावा भावना भावनात्मिका ॥ ५२ ॥

हृत्पद्मनिलया शूरा स्वरावृत्तिः स्वरात्मिका ।

सूक्ष्मरूपा परानन्दा स्वात्मस्था विश्वदा शिवा ॥ ५३ ॥

परिपूर्णा दयापूर्णा मदघूर्णितलोचना ।

शरण्या तरुणार्काभा मदा रक्ता मनस्विनी ॥ ५४ ॥

अनन्ताऽनन्तमहिमा नित्यतृप्ता निरञ्जना ।

अचिन्त्या शक्तिश्चिन्त्यार्था चिन्त्याऽचिन्त्यस्वरूपिणी ॥ ५५ ॥

जगन्मयी जगन्माता जगत्सारा जगद्भवा ।

आप्यायिनी परानन्दा कूटस्थाऽऽवासरूपिणी ॥ ५६ ॥

ज्ञानगम्या ज्ञानमूर्तिः ज्ञापिनी ज्ञानरूपिणी ।

खेचरी खेचरीमुद्रा खेचरीयोगरूपिणी ॥ ५७ ॥

अनाथनाथा निर्नाथा घोराऽघोरस्वरूपिणी ।

सुधाप्रदा सुधाधारा सुधारूपा सुधामयी ॥ ५८ ॥

दहरा दहराकाशा दहराकाशमध्यगा ।

माङ्गल्या मङ्गलकरी महामाङ्गल्यदेवता ॥ ५९ ॥

माङ्गल्यदायिनी मान्या सर्वमङ्गलदायिनी ।

स्वप्रकाशा महाभूषा भामिनी भवरूपिणी ॥ ६० ॥

कात्यायनी कलावासा पूर्णा कामा यशस्विनी ।

अर्थाऽवसाननिलया नारायणमनोहरा ॥ ६१ ॥

मोक्षमार्गविधानज्ञा विरिञ्चोत्पत्तिभूमिका ।

अनुत्तरा महाराध्या दुष्प्रापा दुरतिक्रमा ॥ ६२ ॥

शुद्धिदा कामदा सौम्या ज्ञानदा मानदायिनी ।

स्वधा स्वाहा सुधा मेधा मधुरा मधुमन्दिरा ॥ ६३ ॥

निर्वाणदायिनी श्रेष्ठा शर्मिष्ठा शारदार्चिता ।

सुवर्चला सुराराध्या शुद्धसत्त्वा सुरार्चिता ॥ ६४ ॥

स्तुतिः स्तुतिमयी स्तुत्या स्तुतिरूपा स्तुतिप्रिया ।

कामेश्वरी कामवती कामिनी कामरूपिणी ॥ ६५ ॥

आकाशगर्भा ह्रीङ्कारी कङ्काली कालरूपिणी ।

विष्णुपत्नी विशुद्धार्था विश्वरूपेशवन्दिता ॥ ६६ ॥

विश्ववेद्या महावीरा विश्वघ्नी विश्वरूपिणी ।

सुशीलाढ्या शैलवती शैलस्था शैलरूपिणी ॥ ६७ ॥

रुद्राणी चण्डखट्वाङ्गी डाकिनी साकिनी प्रभा ।

नित्या निर्वेदखट्वाङ्गी जननी जनरूपिणी ॥ ६८ ॥

तलोदरी जगत्सूत्री जगती ज्वलिनी ज्वली ।

साकिनी सारसंहृद्या सर्वोत्तीर्णा सदाशिवा ॥ ६९ ॥

स्फुरन्ती स्फुरिताकारा स्फूर्तिः स्फुरणरूपिणी ।

शिवदूती शिवा शिष्टा शिवज्ञा शिवरूपिणी ॥ ७० ॥

रागिणी रञ्जनी रम्या रजनी रजनीकरा ।

विश्वम्भरा विनीतेष्टा विधात्री विधिवल्लभा ॥ ७१ ॥

विद्योतिनी विचित्रार्था विश्वाद्या विविधाभिधा ।

विश्वाक्षरा सरसिका विश्वस्थाऽतिविचक्षणा ॥ ७२ ॥

ब्रह्मयोनिर्महायोनिः कर्मयोनिस्त्रयीतनुः ।

हाकिनी हारिणी सौम्या रोहिणी रोगनाशनी ॥ ७३ ॥

श्रीप्रदा श्रीर्श्रीधरा च श्रीकरा श्रीमतिः श्रिया ।

श्रीमाता श्रीकरी श्रेयः श्रेयसी च सुरेश्वरी ॥ ७४ ॥

कामेश्वरी कामवती कामगिर्यालयस्थिता ।

रुद्रात्मिका रुद्रमाता रुद्रगम्या रजस्वला ॥ ७५ ॥

अकारषोडशान्तःस्था भैरवाऽऽह्लादिनी परा ।

कृपादेहाऽरुणा नाथा सुधाबिन्दुसमाश्रिता ॥ ७६ ॥

काली कामकला कन्या पार्वती पररूपिणी ।

मायावती घोरमुखी वादिनी दीपिनी शिवा ॥ ७७ ॥

मकारा मातृचक्रेशी महासेना विमोहिनी ।

उत्सुकाऽनुत्सुका हृष्टा ह्रीङ्कारी चक्रनायिका ॥ ७८ ॥

रुद्रा भवानी चामुण्डी ह्रीङ्कारी सौख्यदायिनी ।

गरुडा गारुडी ज्येष्ठा सकला ब्रह्मचारिणी ॥ ७९ ॥

कृष्णाङ्गा वाहिनी कृष्णा खेचरी कमलाप्रिया ।

भद्रिणी रुद्रचामुण्डा ह्रीङ्कारी सौभगा ध्रुवा ॥ ८० ॥

गरुडी गारुडी ज्येष्ठा स्वर्गदा ब्रह्मवादिनी ।

पानानुरक्ता पानस्था भीमरूपा भयापहा ॥ ८१ ॥

रक्ता चण्डा सुरानन्दा त्रिकोणा पानदर्पिता ।

महोत्सुका क्रतुप्रीता कङ्काली कालदर्पिता ॥ ८२ ॥

सर्ववर्णा सुवर्णाभा परामृतमहार्णवा ।

योग्यार्णवा नागबुद्धिर्वीरपाना नवात्मिका ॥ ८३ ॥

द्वादशान्तसरोजस्था निर्वाणसुखदायिनी ।

आदिसत्त्वा ध्यानसत्त्वा श्रीकण्ठस्वान्तमोहिनी ॥ ८४ ॥

परा घोरा करालाक्षी स्वमूर्तिर्मेरुनायिका ।

आकाशलिङ्गसम्भूता परामृतरसात्मिका ॥ ८५ ॥

शाङ्करी शाश्वती रुद्रा कपाला कुलदीपिका ।

विद्यातनुर्मन्त्रतनुश्चण्डा मुण्डा सुदर्पिता ॥ ८६ ॥

वागीश्वरी योगमुद्रा त्रिखण्डा सिद्धमण्डिता ।

शृङ्गारपीठनिलया काली मातङ्गकन्यका ॥ ८७ ॥

संवर्तमण्डलान्तःस्था भुवनोद्यानवासिनी ।

पादुकाक्रमसन्तृप्ता भैरवस्थाऽपराजिता ॥ ८८ ॥

निर्वाणा सौरभा दुर्गा महिषासुरमर्दिनी ।

भ्रमराम्बा शिखरिका ब्रह्मविष्ण्वीशतर्पिता ॥ ८९ ॥

उन्मत्तहेला रसिका योगिनी योगदर्पिता ।

सन्तानानन्दिनी बीजचक्रा परमकारुणी ॥ ९० ॥

खेचरी नायिका योग्या परिवृत्ताऽतिमोहिनी ।

शाकम्भरी सम्भवित्री स्कन्दाऽऽनन्दी मदार्पिता ॥ ९१ ॥

क्षेमङ्करी सुमा श्वासा स्वर्गदा बिन्दुकारिणी ।

चर्चिता चर्चितपदा चारुखट्वाङ्गधारिणी ॥ ९२ ॥

अघोरा मन्त्रितपदा भामिनी भवरूपिणी ।

उषा सङ्कर्षिणी धात्री चोमा कात्यायनी शिवा ॥ ९३ ॥

सुलभा दुर्लभा शास्त्री महाशास्त्री शिखण्डिनी ।

योगलक्ष्मीर्भोगलक्ष्मीः राज्यलक्ष्मीः कपालिनी ॥ ९४ ॥

देवयोनिर्भगवती धन्विनी नादिनीश्वरी ।

क्षेत्रात्मिका महाधात्री बलिनी केतुमालिनी ॥ ९५ ॥

सदानन्दा सदाभद्रा फल्गुनी रक्तवर्षिणी ।

मन्दारमन्दिरा तीव्रा ग्राहिणी सर्वभक्षिणी ॥ ९६ ॥

अग्निजिह्वा महाजिह्वा शूलिनी शुद्धिदा परा ।

सुवर्णिका कालदूती देवी कालस्वरूपिणी ॥ ९७ ॥

कुम्भिनी शयनी गुर्वी वाराही हुं‍फडात्मिका ।

उग्रात्मिका पद्मवती धूर्जटी चक्रधारिणी ॥ ९८ ॥

देवी तत्पुरुषा शिक्षा माध्वी स्त्रीरूपधारिणी ।

दक्षा दाक्षायणी दीक्षा मदना मदनातुरा ॥ ९९ ॥

धिष्ण्या हिरण्या सरणिः धरित्री धररूपिणी ।

वसुधा वसुधाछाया वसुधामा सुधामयी ॥ १०० ॥

शृङ्गिणी भीषणा सान्द्री प्रेतस्थाना मतङ्गिनी ।

खण्डिनी योगिनी तुष्टिः नादिनी भेदिनी नटी ॥ १०१ ॥

खट्वाङ्गिनी कालरात्रिः मेघमाला धरात्मिका ।

भापीठस्था भवद्रूपा महाश्रीर्धूम्रलोचना ॥ १०२ ॥

सुखदा गन्धिनी बन्धुर्बन्धिनी बन्धमोचिनी ।

सावित्री सत्कृतिः कर्त्री क्षमा माया महोदया ॥ १०३ ॥

गणेश्वरी गणाकारा सद्गुणा गणपूजिता ।

निर्मला गिरिजा शब्दा शर्वाणी शर्मदायिनी ॥ १०४ ॥

एकाकिनी सिन्धुकन्या काव्यसूत्रस्वरूपिणी ।

अव्यक्तरूपिणी व्यक्ता योगिनी पीठरूपिणी ॥ १०५ ॥

निर्मदा धामदाऽऽदित्या नित्या सेव्याऽक्षरात्मिका ।

तपिनी तापिनी दीक्षा शोधिनी शिवदायिनी ॥ १०६ ॥

स्वस्ति स्वस्तिमती बाला कपिला विस्फुलिङ्गिनी ।

अर्चिष्मती द्युतिमती कौलिनी कव्यवाहिनी ॥ १०७ ॥

जनाश्रिता विष्णुविद्या मानसी विन्ध्यवासिनी ।

विद्याधरी लोकधात्री सर्वा सारस्वरूपिणी ॥ १०८ ॥

पापघ्नी सर्वतोभद्रा त्रिस्था शक्तित्रयात्मिका ।

त्रिकोणनिलया त्रिस्था त्रयीमाता त्रयीतनुः ॥ १०९ ॥

त्रयीविद्या त्रयीसारा त्रयीरूपा त्रिपुष्करा ।

त्रिवर्णा त्रिपुरा त्रिश्रीः त्रिमूर्तिस्त्रिदशेश्वरी ॥ ११० ॥

त्रिकोणसंस्था त्रिविधा त्रिस्वरा त्रिपुराम्बिका ।

त्रिदिवा त्रिदिवेशानी त्रिस्था त्रिपुरदाहिनी ॥ १११ ॥

जङ्घिनी स्फोटिनी स्फूर्तिः स्तम्भिनी शोषिणी प्लुता ।

ऐङ्काराख्या वामदेवी खण्डिनी चण्डदण्डिनी ॥ ११२ ॥

क्लीङ्कारी वत्सला हृष्टा सौःकारी मदहंसिका ।

वज्रिणी द्राविणी जैत्री श्रीमती गोमती ध्रुवा ॥ ११३ ॥

परतेजोमयी संवित्पूर्णपीठनिवासिनी ।

त्रिधात्मा त्रिदशा त्र्यक्षा त्रिघ्नी त्रिपुरमालिनी ॥ ११४ ॥

त्रिपुराश्रीस्त्रिजननी त्रिभूस्त्रैलोक्यसुन्दरी ।

कुमारी कुण्डली धात्री बाला भक्तेष्टदायिनी ॥ ११५ ॥

कलावती भगवती भक्तिदा भवनाशिनी ।

सौगन्धिनी सरिद्वेणी पद्मरागकिरीटिनी ॥ ११६ ॥

तत्त्वत्रयी तत्त्वमयी मन्त्रिणी मन्त्ररूपिणी ।

सिद्धा श्रीत्रिपुरावासा बालात्रिपुरसुन्दरी ॥ ११७ ॥

बालात्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् ।

कथितं देवदेवेशि सर्वमङ्गलदायकम् ॥ ११८ ॥

सर्वरक्षाकरं देवि सर्वसौभाग्यदायकम् ।

सर्वाश्रयकरं देवि सर्वानन्दकरं वरम् ॥ ११९ ॥

सर्वपापक्षयकरं सदा विजयवर्धनम् ।

सर्वदा श्रीकरं देवि सर्वयोगीश्वरीमयम् ॥ १२० ॥

सर्वपीठमयं देवि सर्वानन्दकरं परम् ।

सर्वदौर्भाग्यशमनं सर्वदुःखनिवारणम् ॥ १२१ ॥

सर्वाभिचारदोषघ्नं परमन्त्रविनाशनम् ।

परसैन्यस्तम्भकरं शत्रुस्तम्भनकारणम् ॥ १२२ ॥

महाचमत्कारकरं महाबुद्धिप्रवर्धनम् ।

महोत्पातप्रशमनं महाज्वरनिवारणम् ॥ १२३ ॥

महावश्यकरं देवि महासुखफलप्रदम् ।

एवमेतस्य मन्त्रस्य प्रभावो वर्णितुं मया ॥ १२४ ॥

न शक्यते वरारोहे कल्पकोटि शतैरपि ।

यः पठेत्सङ्गमे नित्यं सर्वदा मन्त्रसिद्धिदम् ॥ १२५ ॥

इति श्रीविष्णुयामले श्री बालात्रिपुरसुन्दरी सहस्रनाम स्तोत्रम् ।

sri bala sahasranama stotram