Skip to main content
पडताळणी प्रलंबित

श्री गणेशाष्टकम्

सर्वे उचुः ।

यतोऽनन्तशक्तेरनन्ताश्च जीवा

यतो निर्गुणादप्रमेया गुणास्ते ।

यतो भाति सर्वं त्रिधा भेदभिन्नं

सदा तं गणेशं नमामो भजामः ॥ १ ॥

यतश्चाविरासीज्जगत्सर्वमेत-

-त्तथाब्जासनो विश्वगो विश्वगोप्ता ।

तथेन्द्रादयो देवसङ्घा मनुष्याः

सदा तं गणेशं नमामो भजामः ॥ २ ॥

यतो वह्निभानू भवो भूर्जलं च

यतः सागराश्चन्द्रमा व्योम वायुः ।

यतः स्थावरा जङ्गमा वृक्षसङ्घाः

सदा तं गणेशं नमामो भजामः ॥ ३ ॥

यतो दानवाः किन्नरा यक्षसङ्घा

यतश्चारणा वारणाः श्वापदाश्च ।

यतः पक्षिकीटा यतो वीरुधश्च

सदा तं गणेशं नमामो भजामः ॥ ४ ॥

यतो बुद्धिरज्ञाननाशो मुमुक्षो-

-र्यतः सम्पदो भक्तसन्तोषदाः स्युः ।

यतो विघ्ननाशो यतः कार्यसिद्धिः

सदा तं गणेशं नमामो भजामः ॥ ५ ॥

यतः पुत्रसम्पद्यतो वाञ्छितार्थो

यतोऽभक्तविघ्नास्तथाऽनेकरूपाः ।

यतः शोकमोहौ यतः काम एव

सदा तं गणेशं नमामो भजामः ॥ ६ ॥

यतोऽनन्तशक्तिः स शेषो बभूव

धराधारणेऽनेकरूपे च शक्तः ।

यतोऽनेकधा स्वर्गलोका हि नाना

सदा तं गणेशं नमामो भजामः ॥ ७ ॥

यतो वेदवाचो विकुण्ठा मनोभिः

सदा नेति नेतीति यत्ता गृणन्ति ।

परब्रह्मरूपं चिदानन्दभूतं

सदा तं गणेशं नमामो भजामः ॥ ८ ॥

श्रीगणेश उवाच ।

पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।

त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ॥ ९ ॥

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।

अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥

यः पठेन्मासमात्रं तु दशवारं दिने दिने ।

स मोचयेद्बन्धगतं राजवध्यं न संशयः ॥ ११ ॥

विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।

वाञ्छिताँल्लभते सर्वानेकविंशतिवारतः ॥ १२ ॥

यो जपेत्परया भक्त्या गजाननपरो नरः ।

एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः ॥ १३ ॥

इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकम् ।

sri ganesha ashtakam