Skip to main content
पडताळणी प्रलंबित

श्री नग्नभैरव स्तुतिः (मुद्गलपुराणे)

भ्रूशुण्ड्युवाच ।

सर्वमायाविहीनाय सर्वमायाप्रचालक ।

सर्वान्तर्यामिणे नित्यं नग्नभैरव ते नमः ॥ १ ॥

मयूरेशपरायैव मयूरपुरपालक ।

धर्मिष्ठानां सुपालाय नग्नभैरव ते नमः ॥ २ ॥

अधर्मनिरतांश्चैव बहिःकाराय देवप ।

सदा स्वानन्दनिष्ठाय नग्नभैरव ते नमः ॥ ३ ॥

संस्कारयुक्तभावेन पापकर्मपरात्मनाम् ।

मयूरे दण्डकर्त्रे वै नग्नभैरव ते नमः ॥ ४ ॥

महाबलधरायैव ब्रह्मादीनां प्रचालक ।

अमेयशक्तये देव नग्नभैरव ते नमः ॥ ५ ॥

भुक्तिमुक्तिप्रदात्रे च धनधान्यविवर्धन ।

गाणेशानां प्रपालाय नग्नभैरव ते नमः ॥ ६ ॥

प्रलये शूलमुद्यम्य ब्रह्माण्डभयकारक ।

शूलप्रोतमहाण्डाय नग्नभैरव ते नमः ॥ ७ ॥

अट्‍टहासेन देवेन्द्रांस्तथा सन्त्रास्य चासुरान् ।

नृत्यसे गणनाथाग्रे नग्नभैरव ते नमः ॥ ८ ॥

विश्वं ततं सर्वमिदं त्वयेश

आद्यन्तमध्येषु महानुभाव ।

संरक्ष देवेश मयूरसंस्था-

-नस्मान् कुरुष्व त्वमनन्यभावान् ॥ ९ ॥

शूलिन्नमस्तेऽखिलकारणाय

त्वद्भीतिभावेन जगत्प्रवृत्तिः ।

व्यापारयुक्तं विविधेषु नित्यं

स्वस्वप्रकार्यं प्रकरोति चात्मन् ॥ १० ॥

अतस्त्वदाधारमयं परेश

सुरक्ष ते भक्तियुतं कुरुष्व ।

गणेशक्षेत्रं त्वदधीनगं तुं

गणेशसंस्थं कुरु ते नमो वै ॥ ११ ॥

इदं स्तोत्रं महेशाना नग्नभैरवकस्य च ।

यः पठेच्छृणुयाद्वाऽपि स सर्वं प्रलभेच्छुभम् ॥ १२ ॥

धनधान्यादिकं सर्वं भुक्तिमुक्तिसमन्वितम् ।

लभेदनेन देवेशास्तुविध्वं नग्नभैरवम् ॥ १३ ॥

मयूरक्षेत्रत्यागश्च कदापि न भवेन्नृणाम् ।

स्तोत्रेण स्तुवतां नित्यं न किञ्चिद्दुर्लभं भवेत् ॥ १४ ॥

इति श्रीमन्मुद्गले महापुराणे षष्ठे खण्डे अष्टाविंशतितमोऽध्याये भ्रूशुण्डि कृत श्री नग्नभैरव स्तुतिः ॥

sri nagna bhairava stuti mudgala purane