Skip to main content
पडताळणी प्रलंबित

श्री भानुविनायक स्तोत्रम्

अरुण उवाच ।

नमस्ते गणनाथाय तेजसां पतये नमः ।

अनामयाय देवेश आत्मने ते नमो नमः ॥ १ ॥

ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः ।

आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ २ ॥

स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने ।

चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३ ॥

सिद्धिबुद्धिपते तुभ्यं सञ्ज्ञानाथाय ते नमः ।

विघ्नहन्त्रे तमोहन्त्रे हेरम्बाय नमो नमः ॥ ४ ॥

अनन्तविभवायैव नामरूपप्रधारिणे ।

मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥ ५ ॥

ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने ।

गणेशाय परेशाय विघ्नेशाय नमो नमः ॥ ६ ॥

विवस्वते भानवे ते रवये ज्योतिषां पते ।

लम्बोदरैकदन्ताय महोत्कटाय ते नमः ॥ ७ ॥

यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा ।

भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥ ८ ॥

किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।

चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥ ९ ॥

एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे ।

वामाङ्गे सञ्ज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥ १० ॥

तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः ।

तं जगाद गणाधीशो वरं वृणु हृदीप्सितम् ॥ ११ ॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।

भविष्यति न सन्देहश्चिन्तितं स लभेत् परम् ॥ १२ ॥

शृणुयाद्वा जपेद्वाऽपि तस्य किञ्चिन्न दुर्लभम् ।

भविष्यति महापक्षिन् मम सन्तोषकारकम् ॥ १३ ॥

इति श्रीमन्मुद्गले महापुराणे षष्ठे खण्डे अरुण कृत श्री भानुविनायक स्तोत्रम् ॥

sri bhanu vinayaka stotram