Skip to main content
पडताळणी प्रलंबित

श्री महागणपति स्तोत्रम्

योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय

प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।

आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं

तं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना ॥ १ ॥

तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदु-

-स्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाभ्यर्थ्यते ।

आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं

स्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २ ॥

कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ

द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।

मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे

षट्कोणाकलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३ ॥

चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विज-

-व्रीह्यग्रोत्पलपाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम् ।

आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भूषया

माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४ ॥

दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृ-

-त्सिन्दूरारुणगण्डमण्डलयुगव्याजात्प्रशस्तिद्वयम् ।

त्रैलोक्येष्टविधानवर्णसुभगं यः पद्मरागोपमं

धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥ ५ ॥

भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा

सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वङ्कषाः ।

दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः

स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६ ॥

मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा

कान्ताः कम्बुकदम्बचुम्बितवनाभोगप्रवालोपमाः ।

ज्योत्स्नापूरतरङ्गमन्थरतरत्सन्ध्यावयस्याश्चिरं

हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७ ॥

शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षर-

-न्नानारत्नचयेन साधकजनान्सम्भावयन्कोटिशः ।

दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भव-

-त्कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८ ॥

हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया

बिभ्रत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन् ।

न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तया दक्षिणे

बिभ्राणः परशुं त्रिशूलमितया देव्या धरण्या सह ॥ ९ ॥

पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले

बिभ्रत्या सममैक्षवं धनुरिषून्पौष्पान्वहन्पञ्च च ।

वामे चक्रगदाधरः स भगवान्क्रोडः प्रियाङ्गोस्तले

हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥ १० ॥

षट्कोणाश्रिषु षट्सु षड्गजमुखाः पाशाङ्कुशाभीवरा-

-न्बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुञ्जत्विषः ।

आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः

पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११ ॥

आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः

कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः ।

कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते

सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२ ॥

आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ

वर्षन्तौ वसुपार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी ।

अङ्गान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रया-

-स्तद्बाह्येः कुलिशादयः परिपतत्कालानलज्योतिषः ॥ १३ ॥

इत्थं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं-

-काराक्षिप्तसमस्तदैत्य पृतनाव्राताय दीप्तत्विषे ।

आनन्दैकरसावबोधलहरी विध्वस्तसर्वोर्मये

सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४ ॥

सेवा हेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी

काटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।

राजन्नीराजनश्रीसुखचरणनखद्योतविद्योतमानः

श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥ १५ ॥

एतेन प्रकटरहस्यमन्त्रमाला-

-गर्भेण स्फुटतरसंविदा स्तवेन ।

यः स्तौति प्रचुरतरं महागणेशं

तस्येयं भवति वशंवदा त्रिलोकी ॥ १६ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीराघवचैतन्य विरचितं महागणपति स्तोत्रम् ।।

sri maha ganapathi stotram