Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति सहस्रनाम स्तोत्रम् – १

अस्य श्रीदक्षिणामूर्ति सहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणामूर्तिर्देवता ओं बीजं स्वाहा शक्तिः नमः कीलकं मेधादक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ह्रामित्यादिना न्यासः ॥

ध्यानम् –

सिद्धितोयनिधेर्मध्ये रत्नग्रैवे मनोरमे ।

कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ १ ॥

आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् ।

शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ २ ॥

दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके ।

जटामण्डलसंलग्नशीतांशुकरमण्डितम् ॥ ३ ॥

नागहारधरं चारुकङ्कणैः कटिसूत्रकैः ।

विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ ४ ॥

चिन्तामणिमहाबृन्दैः कल्पकैः कामधेनुभिः ।

चतुःषष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ ५ ॥

रत्नसिंहासने साधुद्वीपिचर्मसमायुते ।

तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ ६ ॥

वीरासने समासीनं लम्बदक्षपदाम्बुजम् ।

ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ ७ ॥

पादमूलसमाक्रान्तमहापस्मारवैभवम् ।

रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ ८ ॥

गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् ।

सिद्धबृन्दैर्योगिबृन्दैर्मुनिबृन्दैर्निषेवितम् ॥ ९ ॥

आराध्यमानवृषभमग्नीन्दुरविलोचनम् ।

पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ १० ॥

एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ ११ ॥

लमित्यादि पञ्चोपचाराः ॥

स्तोत्रं –

ओम् । देवदेवो महादेवो देवानामपि देशिकः ।

दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ १ ॥

कैलासशिखरोत्तुङ्गकमनीयनिजाकृतिः ।

वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ २ ॥

कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः ।

पाटीरपाण्डुराकारपरिपूर्णसुधाधिपः ।३ ॥

जटाकोटीरघटितसुधाकरसुधाप्लुतः ।

पश्यल्ललाटसुभगसुन्दरभ्रूविलासवान् ॥ ४ ॥

कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः ।

कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभूः ॥ ५ ॥

तिलप्रसूनसङ्काशनासिकापुटभासुरः ।

मन्दस्मितस्फुरन्मुग्धमहनीयमुखाम्बुजः ॥ ६ ॥

कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजितः ।

सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ ७ ॥

शङ्खाटोपगलद्दिव्यगलवैभवमञ्जुलः ।

करकन्दलितज्ञानमुद्रारुद्राक्षमालिकः ॥ ८ ॥

अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः ।

विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ ९ ॥

बृहत्कटिनितम्बाढ्यः पीवरोरुद्वयान्वितः ।

जङ्घाविजिततूणीरस्तुङ्गगुल्फयुगोज्ज्वलः ॥ १० ॥

मृदुपाटलपादाब्जश्चन्द्राभनखदीधितिः ।

अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ ११ ॥

घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजः ।

सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ १२ ॥

दिव्यचन्दनलिप्ताङ्गश्चारुहासपरिष्कृतः ।

कर्पूरधवलाकारः कन्दर्पशतसुन्दरः ॥ १३ ॥

कात्यायनीप्रेमनिधिः करुणारसवारिधिः ।

कामितार्थप्रदः श्रीमत्कमलावल्लभप्रियः ॥ १४ ॥

कटाक्षितात्मविज्ञानः कैवल्यानन्दकन्दलः ।

मन्दहाससमानेन्दुश्छिन्नाज्ञानतमस्ततिः ॥ १५ ॥

संसारानलसन्तप्तजनतामृतसागरः ।

गम्भीरहृदयाम्भोजनभोमणिनिभाकृतिः ॥ १६ ॥

निशाकरकराकारवशीकृतजगत्त्रयः ।

तापसाराध्यपादाब्जस्तरुणानन्दविग्रहः ॥ १७ ॥

भूतिभूषितसर्वाङ्गो भूताधिपतिरीश्वरः ।

वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ १८ ॥

तापत्रयतमोभानुः पापारण्यदवानलः ।

संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ १९ ॥

ललाटहुतभुग्दग्धमनोभवशुभाकृतिः ।

तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ २० ॥

अस्तङ्गतसमस्तेच्छो निस्तुलानन्दमन्थरः ।

धीरोदात्तगुणाधार उदारवरवैभवः ॥ २१ ॥

अपारकरुणामूर्तिरज्ञानध्वान्तभास्करः ।

भक्तमानसहंसाग्र्यो भवामयभिषक्तमः ॥ २२ ॥

योगीन्द्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः ।

शुद्धस्फटिकसङ्काशो बद्धपन्नगभूषणः ॥ २३ ॥

नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः ।

वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ २४ ॥

धराधरेन्दुरानन्दसन्दोहरससागरः ।

द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुतः ॥ २५ ॥

प्रत्यगात्मा परञ्ज्योतिः पुराणः परमेश्वरः ।

प्रपञ्चोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ २६ ॥

सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरो हरः ।

सर्वप्रेमनिजाहासः सर्वानुग्रहकृच्छिवः ॥ २७ ॥

सर्वेन्द्रियगुणाभासः सर्वभूतगुणाश्रयः ।

सच्चिदानन्दपूर्णात्मा सर्वभूतगुणाश्रयः ॥ २८ ॥

सर्वभूतान्तरः साक्षी सर्वज्ञः सर्वकामदः ।

सनकादिमहायोगिसमाराधितपादुकः ॥ २९ ॥

आदिदेवो दयासिन्धुः शिक्षितासुरविग्रहः ।

यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ॥ ३० ॥

ब्रह्मादिदेवविनुतो योगमायानियोजकः ।

शिवयोगी शिवानन्दः शिवभक्तसमुद्धरः ॥ ३१ ॥

वेदान्तसारसन्दोहः सर्वसत्त्वावलम्बनः ।

वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ ३२ ॥

सुशीलो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ।

नृत्तगीतकलाभिज्ञः कर्मवित्कर्ममोचकः ॥ ३३ ॥

कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः ।

ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ ३४ ॥

अनाथनाथो भगवानाश्रितामरपादपः ।

वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ ३५ ॥

व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः ।

सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ ३६ ॥

चिन्ताशोकप्रशमनो जगदानन्दकारकः ।

रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ ३७ ॥

मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्त्वसङ्ग्रहः ।

अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ ३८ ॥

समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः ।

सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ ३९ ॥

विश्वाधिकः पशुपतिः पशुपाशविमोचकः ।

अष्टमूर्तिर्दीप्तमूर्तिर्नामोच्चारणमुक्तिदः ॥ ४० ॥

सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः ।

दिव्यकेलीसमायुक्तो दिव्यमाल्याम्बरावृतः ॥ ४१ ॥

अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः ।

तप्तचामीकराकारो जितदावानलाकृतिः ॥ ४२ ॥

निरञ्जनो निर्विकारो निजावासो निराकृतिः ।

जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ ४३ ॥

कामहन्ता काममूर्तिः कल्याणवृषवाहनः ।

गङ्गाधरो महादेवो दीनबन्धविमोचकः ॥ ४४ ॥

धूर्जटिः खण्डपरशुः सद्गुणो गिरिजासखः ।

अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ ४५ ॥

उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः ।

नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ ४६ ॥

प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः ।

आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ ४७ ॥

यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः ।

अनन्तस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ ४८ ॥

विश्वरूपो विरूपाक्षः प्रभुः परिबृढो दृढः ।

भव्यो जितारिषड्वर्गो महोदारो विषाशनः ॥ ४९ ॥

सुकीर्तिरादिपुरुषो जरामरणवर्जितः ।

प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ ५० ॥

गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः ।

सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ ५१ ॥

अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ।

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ५२ ॥

चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोपहृत् ।

भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ ५३ ॥

अणिमादिगुणोपेतो लोकवश्यविधायकः ।

योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ ५४ ॥

गुरुरूपधरः श्रीमत्परमानन्दसागरः ।

सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ ५५ ॥

सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् ।

निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ ५६ ॥

सर्वात्मगः सर्वसाक्षी निःसङ्गो निरुपद्रवः ।

निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ ५७ ॥

ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः ।

शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ ५८ ॥

सहस्रशक्तिसम्युक्तः पुण्यकायो दुरासदः ।

तारकब्रह्मसम्पूर्णस्तपस्विजनसंवृतः ॥ ५९ ॥

विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः ।

निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ ६० ॥

निरवद्यो निरातङ्को भीमो भीमपराक्रमः ।

वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ ६१ ॥

अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः ।

विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमन्थरः ॥ ६२ ॥

अग्रेसरस्तीर्थभूतः सितभस्मावकुण्ठनः ।

अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ ६३ ॥

ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः ।

गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ ६४ ॥

कल्याणाचलकोदण्डः कमलापतिसायकः ।

वारांशेवधितूणीरः सरोजासनसारथिः ॥ ६५ ॥

त्रयीतुरङ्गसङ्क्रान्तो वासुकिज्याविराजितः ।

रवीन्दुचरणाचारिधरारथविराजितः ॥ ६६ ॥

त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलः ।

उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ ६७ ॥

जातुप्रपन्नजनताजीवनोपायनोत्सुकः ।

संसारार्णवनिर्मग्नसमुद्धरणपण्डितः ॥ ६८ ॥

मदद्विरदधिक्कारिगतिमञ्जुलवैभवः ।

मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ ६९ ॥

कैवल्योदधिकल्लोललीलाताण्डवपण्डितः ।

विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ ७० ॥

वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः ।

अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ ७१ ॥

सर्पभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः ।

अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ ७२ ॥

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।

देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ ७३ ॥

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।

सर्वदेवमयोऽचिन्त्यो देवात्मा चात्मसम्भवः ॥ ७४ ॥

निर्लेपो निष्प्रपञ्चात्मा निर्विघ्नो विघ्ननाशकः ।

एकज्योतिर्निरातङ्को व्याप्तमूर्तिरनाकुलः ॥ ७५ ॥

निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः ।

नित्यानन्दः सुराध्यक्षो निःसङ्कल्पो निरञ्जनः ॥ ७६ ॥

निष्कलङ्को निराकारो निष्प्रपञ्चो निरामयः ।

विद्याधरो वियत्केशो मार्कण्डेयवरप्रदः ॥ ७७ ॥

भैरवो भैरवीनाथः कामदः कमलासनः ।

वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ ७८ ॥

चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः ।

निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ ७९ ॥

धर्मदक्षो महाराजः किरीटी वन्दितो गुहः ।

माधवो यामिनीनाथः शम्बरः शबरीप्रियः ॥ ८० ॥

सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसम्भवः ।

ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ ८१ ॥

मार्ताण्डः पुण्डरीकाक्षो लोकनायकविक्रमः ।

मुकुन्दार्च्यो वैद्यनाथः पुरन्दरवरप्रदः ॥ ८२ ॥

भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः ।

किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ ८३ ॥

विजयो भूतभावज्ञो भीमसेनो दिवाकरः ।

बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ ८४ ॥

ओषधीशो वामदेवो गोविन्दो नीललोहितः ।

षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ ८५ ॥

कर्पूरदीपिकालोलः कर्पूररसचर्चितः ।

अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ ८६ ॥

आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः ।

देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ ८७ ॥

निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ।

निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ ८८ ॥

भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः ।

दारिद्र्यतृणकूटाग्निर्दारितासुरसन्ततिः ॥ ८९ ॥

मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः ।

अभ्यासातिशयज्ञेयश्चन्द्रमौलिः कलाधरः ॥ ९० ॥

महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः ।

सिद्धः पुराणपुरुषो रणमण्डलभैरवः ॥ ९१ ॥

सद्योजातो वटारण्यवासी पुरुषवल्लभः ।

हरिकेशो महात्राता नीलग्रीवः सुमङ्गलः ॥ ९२ ॥

हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः ।

सर्वात्मा सर्वकर्ता च ताण्डवो मुण्डमालिकः ॥ ९३ ॥

अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः ।

प्रसन्नदेवो वागीशश्चिन्तातिमिरभास्करः ॥ ९४ ॥

गौरीपतिस्तुङ्गमौलिर्मखराजो महाकविः ।

श्रीधरः सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ ९५ ॥

अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः ।

कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ ९६ ॥

महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः ।

महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ ९७ ॥

छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः ।

सार्वभौमः सदानन्दः करुणामृतवारिधिः ॥ ९८ ॥

कालकालः कलिध्वंसी जरामरणनाशकः ।

शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ ९९ ॥

चण्डीशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः ।

स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ १०० ॥

रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः ।

त्रियम्बको वररुचिर्देवदेवश्चतुर्भुजः ॥ १०१ ॥

विश्वम्भरो विचित्राङ्गो विधाता पुरशासनः ।

सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ १०२ ॥

नक्षत्रमालाभरणो मघवान् अघनाशनः ।

विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ १०३ ॥

चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः ।

गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ १०४ ॥

सर्वानन्दो दयारूपी शैलजासुमनोहरः ।

सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ १०५ ॥

वृषाङ्को रमणीयाङ्गः सदङ्घ्रिः सामपारगः ।

मन्त्रात्मा कोटिकन्दर्पसौन्दर्यरसवारिधिः ॥ १०६ ॥

यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यन्तकारणम् ।

परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ १०७ ॥

मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः ।

मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ॥ १०८ ॥

मुनिवन्द्यो मुनिश्रेष्ठो मुनिबृन्दनिषेवितः ।

दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ १०९ ॥

अव्यक्तोऽम्बुजजन्मादिकोटिकोटिसुपूजितः ।

लिङ्गमूर्तिरलिङ्गात्मा लिङ्गात्मा लिङ्गविग्रहः ॥ ११० ॥

यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः ।

विश्वेशो गजचर्मैकचेलाञ्चितकटीतटः ॥ १११ ॥

पावनान्तेवसद्योगिजनसार्थसुधाकरः ।

अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ ११२ ॥

चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ।

भक्तविज्ञप्तिसन्धाता कर्ता गिरिवराकृतिः ॥ ११३ ॥

ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ।

सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ ११४ ॥

सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः ।

आगमश्चर्मवसनो वाञ्छितार्थफलप्रदः ॥ ११५ ॥

अन्तर्हितोऽसमानश्च देवसिंहासनाधिपः ।

विवादहन्ता सर्वात्मा कालः कालविवर्जितः ॥ ११६ ॥

विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् ।

योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ ११७ ॥

ओङ्काररूपो भगवान् बिन्दुनादमयः शिवः ।

चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ ११८ ॥

सह्याचलगुहावासी साक्षान्मोक्षरसामृतः ।

दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ ११९ ॥

ओङ्कारवाचकः शम्भुः शङ्करः शशिशीतलः ।

पङ्कजासनसंसेव्यः किङ्करामरवत्सलः ॥ १२० ॥

नतदौर्भाग्यतूलाग्निः कृतकौतुकमङ्गलः ।

त्रिलोकमोहनः श्रीमत्त्रिपुण्ड्राङ्कितमस्तकः ॥ १२१ ॥

क्रौञ्चारिजनकः श्रीमद्गणनाथसुतान्वितः ।

अद्भुतानन्तवरदोऽपरिच्छिनात्मवैभवः ॥ १२२ ॥

इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः ।

ऊहापोहविनिर्मुक्त ओङ्कारेश्वरपूजितः ॥ १२३ ॥

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।

भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ १२४ ॥

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।

सुन्दरभ्रूः सुनयनः सुललाटः सुकन्धरः ॥ १२५ ॥

विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ।

विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ १२६ ॥

अतिरागी वीतरागी रागहेतुर्विरागवित् ।

रागहा रागशमनो रागदो रागिरागवित् ॥ १२७ ॥

मनोन्मनो मनोरूपो बलप्रमथनो बलः ।

विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ १२८ ॥

वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।

प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ १२९ ॥

शरन्नाथो शरत्कालनाशकः शरदाश्रयः ।

कुन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १३० ॥

दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ।

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ १३१ ॥

वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियः ।

कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १३२ ॥

शरणागतदीनार्तपरित्राणपरायणः ।

महाप्रेतासनासीनो जितसर्वपितामहः ॥ १३३ ॥

मुक्तादामपरीताङ्गो नानागानविशारदः ।

विष्णुब्रह्मादिवन्द्याङ्घ्रिर्नानादेशैकनायकः ॥ १३४ ॥

धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ।

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ १३५ ॥

भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः ।

गौरीविलाससदनः पिशचानुचरावृतः ॥ १३६ ॥

दक्षिणाप्रेमसन्तुष्टो दारिद्र्यवडवानलः ।

अद्भुतानन्तसङ्ग्रामो ढक्कावादनतत्परः ॥ १३७ ॥

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।

ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ १३८ ॥

युगावहो युगाधीशो युगात्मा युगनायकः ।

जङ्गमः स्थावराकारः कैलासशिखरप्रियः ॥ १३९ ॥

हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ।

लीलाविडम्बितवपुर्भक्तमानसमण्डितः ॥ १४० ॥

बृन्दारकप्रियतमो बृन्दारकवरार्चितः ।

नानाविधानेकरत्नलसत्कुण्डलमण्डितः ॥ १४१ ॥

निःसीममहिमा नित्यलीलाविग्रहरूपधृत् ।

चन्दनद्रवदिग्धाङ्गश्चाम्पेयकुसुमार्चितः ॥ १४२ ॥

समस्तभक्तसुखदः परमाणुर्महाह्रदः ।

अलौकिको दुष्प्रधर्षः कपिलः कालकन्धरः ॥ १४३ ॥

कर्पूरगौरः कुशलः सत्यसन्धो जितेन्द्रियः ।

शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ १४४ ॥

महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ।

भूमिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ १४५ ॥

त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ।

सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ १४६ ॥

पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ।

सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ॥ १४७ ॥

सद्भक्तध्याननिगलः शरणागतपालकः ।

श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ १४८ ॥

सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।

सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणः ॥ १४९ ॥

आमोदो मोदजनकः सर्पराजोत्तरीयकः ।

कपाली कोविदः सिद्धकान्तिसंवलिताननः ॥ १५० ॥

सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ।

विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ १५१ ॥

अनन्तानन्दसुखदो नन्दनः श्रीनिकेतनः ।

अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ १५२ ॥

अनपायोऽनन्तदृष्टिरप्रमेयोऽजरोऽमरः ।

तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ १५३ ॥

अमोघबुद्धिराधार आधाराधेयवर्जितः ।

ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ १५४ ॥

ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः ।

औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ १५५ ॥

शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहः ।

दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ १५६ ॥

अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ।

विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ १५७ ॥

नित्यशुद्धो नित्यबुद्धो नित्यमुक्तोऽपराकृतः ।

मैत्र्यादिवासनालभ्यो महाप्रलयसंस्थितः ॥ १५८ ॥

महाकैलासनिलयः प्रज्ञानघनविग्रहः ।

श्रीमान् व्याघ्रपुरावासो भुक्तिमुक्तिप्रदायकः ॥ १५९ ॥

जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।

जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ॥ १६० ॥

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।

दिक्कालाद्यनवच्छिन्नः सहजानन्दसागरः ॥ १६१ ॥

प्रकृतिः प्राकृतातीतो विज्ञानैकरसाकृतिः ।

निःशङ्कमतिदूरस्थश्चैत्यचेतनचिन्तनः ॥ १६२ ॥

तारकानां हृदन्तस्थस्तारकस्तारकान्तकः ।

ध्यानैकप्रकटो ध्येयो ध्यानी ध्यानविभूषणः ॥ १६३ ॥

परं व्योम परं धाम परमात्मा परं पदम् ।

पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः ॥ १६४ ॥

प्रमाविपर्ययातीतः प्रणताज्ञाननाशकः ।

बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहली ॥ १६५ ॥

ब्रह्मरूपी ब्रह्मपदं ब्रह्मविद्ब्राह्मणप्रियः ।

भूक्षेपदत्तलक्ष्मीको भ्रूमध्यध्यानलक्षितः ॥ १६६ ॥

यशस्करो रत्नगर्भो महाराज्यसुखप्रदः ।

शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ॥ १६७ ॥

शास्ता शिवाद्रिनिलयः शरण्यो याजकप्रियः ।

संसारवैद्यः सर्वज्ञः सभेषजविभेषजः ॥ १६८ ॥

मनोवचोभिरग्राह्यः पञ्चकोशविलक्षणः ।

अवस्थात्रयनिर्मुक्तस्त्ववस्थासाक्षितुर्यकः ॥ १६९ ॥

पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ।

षट्चक्रान्तर्गतोल्लासी षड्विकारविवर्जितः ॥ १७० ॥

विज्ञानघनसम्पूर्णो वीणावादनतत्परः ।

नीहाराकारगौराङ्गो महालावण्यवारिधिः ॥ १७१ ॥

पराभिचारशमनः षडध्वोपरिसंस्थितः ।

सुषुम्नामार्गसञ्चारी बिसतन्तुनिभाकृतिः ॥ १७२ ॥

पिनाकी लिङ्गरूपश्रीः मङ्गलावयवोज्ज्वलः ।

क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ॥ १७३ ॥

सर्ववश्यकरः सर्वदोषहा पुत्रपौत्रदः ।

तैलदीपप्रियस्तैलपक्वान्नप्रीतमानसः ॥ १७४ ॥

तैलाभिषेकसन्तुष्टस्तिलभक्षणतत्परः ।

आपादकणिकामुक्ताभूषाशतमनोहरः ॥ १७५ ॥

शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ।

मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजः ॥ १७६ ॥

अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ।

कन्दर्पतूणाभजङ्घो गुल्फोदञ्चितनूपुरः ॥ १७७ ॥

करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुभृत् ।

विशङ्कटकटिन्यस्तवाचालमणिमेखलः ॥ १७८ ॥

आवर्तनाभिरोमालिवलिमत्पल्लवोदरः ।

मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जितः ॥ १७९ ॥

वीरासनसमासीनो वीणापुस्तोल्लसत्करः ।

अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः ॥ १८० ॥

माणिक्यकङ्कणोल्लासिकराम्बुजविराजितः ।

अनर्घरत्नग्रैवेयविलसत्कम्बुकन्धरः ॥ १८१ ॥

अनाकलितसादृश्यचिबुकश्रीविराजितः ।

मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ १८२ ॥

चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ।

वरवज्रशिलादर्शपरिभाविकपोलभूः ॥ १८३ ॥

कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डितः ।

करुणालहरीपूर्णकर्णान्तायतलोचनः ॥ १८४ ॥

अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ।

चारुचामीकराकारजटाचर्चितचन्दनः ।

कैलासशिखरस्फर्धिकमनीयनिजाकृतिः ॥ १८५ ॥

इति श्री दक्षिणामूर्ति सहस्रनाम स्तोत्रम् ॥

sri dakshinamurthy sahasranama stotram