Skip to main content
पडताळणी प्रलंबित

श्री गायत्री भुजङ्ग स्तोत्रम्

उषःकालगम्यामुदात्त स्वरूपां

अकारप्रविष्टामुदाराङ्गभूषाम् ।

अजेशादि वन्द्यामजार्चाङ्गभाजां

अनौपम्यरूपां भजाम्यादिसन्ध्याम् ॥ १ ॥

सदा हंसयानां स्फुरद्रत्नवस्त्रां

वराभीतिहस्तां खगाम्नायरूपाम् ।

स्फुरत्स्वाधिकामक्षमालां च कुम्भं

दधनामहं भावये पूर्वसन्ध्याम् ॥ २ ॥

प्रवाल प्रकृष्टाङ्ग भूषोज्ज्वलन्तीं

किरीटोल्लसद्रत्नराजप्रभाताम् ।

विशालोरुभासां कुचाश्लेषहारां

भजे बालकां ब्रह्मविद्यां विनोदाम् ॥ ३ ॥

स्फुरच्चन्द्रकान्तां शरच्चन्द्रवक्त्रां

महाचन्द्रकान्ताद्रि पीनस्तनाढ्याम् ।

त्रिशूलाक्षहस्तां त्रिनेत्रस्य पत्नीं

वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ४ ॥

षडाधाररूपां षडाधारगम्यां

षडध्वातिशुद्धां यजुर्वेदरूपाम् ।

हिमाद्रेः सुतां कुन्ददन्तावभासां

महेशार्धदेहां भजे मध्यसन्ध्याम् ॥ ५ ॥

सुषुम्नान्तरस्थां सुधासेव्यमाना-

-मुकारान्तरस्थां द्वितीयस्वरूपाम् ।

सहस्रार्करश्मि प्रभासत्रिनेत्रां

सदा यौवनाढ्यां भजे मध्यसन्ध्याम् ॥ ६ ॥

सदासामगानां प्रियां श्यामलाङ्गीं

अकारान्तरस्थां करोल्लासिचक्राम् ।

गदापद्महस्तां ध्वनत्पाञ्चजन्यां

खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ७ ॥

प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां

अहंलम्बमानस्तनप्रान्तहारम् ।

महानीलरत्नप्रभाकुण्डलाभ्यां

स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ ८ ॥

सदातत्त्वमस्यादि वाक्यैकगम्यां

महामोक्षमार्गैक पाथेयरूपाम् ।

महासिद्धविद्याधरैः सेव्यमानां

भजेऽहं भवोत्तारणीं तुर्यसन्ध्याम् ॥ ९ ॥

हृदम्भोजमध्ये पराम्नायमीडे

सुखासीनसद्राजहंसां मनोज्ञाम् ।

सदा हेमभासां त्रयीविद्यमध्यां

भजाम स्तुवामो वदाम स्मरामः ॥ १० ॥

सदा तत्पदैस्तूयमानां सवित्रीं

वरेण्यां महाभर्गरूपां त्रिनेत्राम् ।

सदा देवदेवादि देवस्य पत्नीं

अहं धीमहीत्यादि पादैक जुष्टाम् ॥ ११ ॥

अनाथं दरिद्रं दुराचारयुक्तं

शठं स्थूलबुद्धिं परं धर्महीनम् ।

त्रिसन्ध्यां जपध्यानहीनं महेशीं

परं चिन्तयामि प्रसीद त्वमेव ॥ १२ ॥

इतीदं भुजङ्गं पठेद्यस्तु भक्त्या

समाधाय चित्ते सदा श्रीभवानीम् ।

त्रिसन्ध्यस्वरूपां त्रिलोकैकवन्द्यां

स मुक्तो भवेत्सर्वपापैरजस्रम् ॥ १३ ॥

इति श्री गायत्री भुजङ्ग स्तोत्रम् ।

sri gayatri bhujanga stotram in hindi