Skip to main content
पडताळणी प्रलंबित

श्री भद्रकाल्यष्टकम् २

श्रीमच्छङ्करपाणिपल्लवकिरल्लोलम्बमालोल्लस-

-न्मालालोलकलापकालकबरीभारावलीभासुरीम् ।

कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं

बालाम्बां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १ ॥

हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद-

-श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् ।

पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं

घोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २ ॥

बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक-

-श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् ।

वीणावादनकौशलाशयशयश्यानन्दसन्दायिनी-

-मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३ ॥

मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणीं

भ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् ।

मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर-

-श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४ ॥

मातङ्गाननबाहुलेयजननीं मातङ्गसङ्गामिनीं

चेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् ।

जृम्भत्प्रौढिनिशुम्भशुम्भमथिनीमम्भोजभूपूजितां

सम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५ ॥

आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणीं

पीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् ।

क्षौमावीतनितम्बबिम्बरशनास्यूतक्वणत् किङ्किणीं

एणाङ्काम्बुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६ ॥

कालाम्भोदकलायकोमलतनुच्छायाशितीभूतिमत्

सङ्ख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् ।

नाभीकूपसरोजनालविलसच्छातोदरीशापदीं

दूरीकुर्वयि देवि घोरदुरितं श्रीभद्रकालीं भजे ॥ ७ ॥

आत्मीयस्तनकुम्भकुङ्कुमरजःपङ्कारुणालङ्कृत-

-श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् ।

वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणां

वेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८ ॥

देवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकं

रोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् ।

श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयीं

श्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥

इति श्रीनारायणगुरुविरचितं श्रीभद्रकाल्यष्टकम् ।

sri bhadrakali ashtakam 2