Skip to main content
पडताळणी प्रलंबित

षडक्षराष्टोत्तरशतनाम स्तोत्रम्

शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः ।

शरकाननसम्भूतः शर्वरीशमुखः शमः ॥ १ ॥

शङ्करः शरणत्राता शशाङ्कमुकुटोज्ज्वलः ।

शर्मदः शङ्खकण्ठश्च शरकार्मुकहेतिभृत् ॥ २ ॥

शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः ।

शमदः शतरुद्रस्थः शतमन्मथविग्रहः ॥ ३ ॥

रणाग्रणी रक्षणकृद्रक्षोबलविमर्दनः ।

रहस्यज्ञो रतिकरो रक्तचन्दनलेपनः ॥ ४ ॥

रत्नधारी रत्नभूषो रत्नकुण्डलमण्डितः ।

रक्ताम्बरो रम्यमुखो रविचन्द्राग्निलोचनः ॥ ५ ॥

रमाकलत्रजामाता रहस्यो रघुपूजितः ।

रसकोणान्तरालस्थो रजोमूर्ती रतिप्रदः ॥ ६ ॥

वसुदो वटुरूपश्च वसन्तऋतुपूजितः ।

वलवैरिसुतानाथो वनजाक्षो वराकृतिः ॥ ७ ॥

वक्रतुण्डानुजो वत्सो वरदाभयहस्तकः ।

वत्सलो वर्षकारश्च वसिष्ठादिप्रपूजितः ॥ ८ ॥

वणिग्रूपो वरेण्यश्च वर्णाश्रमविधायकः ।

वरदो वज्रभृद्वन्द्यो वन्दारुजनवत्सलः ॥ ९ ॥

नकाररूपो नलिनो नकारयुतमन्त्रकः ।

नकारवर्णनिलयो नन्दनो नन्दिवन्दितः ॥ १० ॥

नटेशपुत्रो नम्रभ्रूर्नक्षत्रग्रहनायकः ।

नगाग्रनिलयो नम्यो नमद्भक्तफलप्रदः ॥ ११ ॥

नवनागो नगहरो नवग्रहसुवन्दितः ।

नववीराग्रजो नव्यो नमस्कारस्तुतिप्रियः ॥ १२ ॥

भद्रप्रदश्च भगवान् भवारण्यदवानलः ।

भवोद्भवो भद्रमूर्तिर्भर्त्सितासुरमण्डलः ॥ १३ ॥

भयापहो भर्गरूपो भक्ताभीष्टफलप्रदः ।

भक्तिगम्यो भक्तनिधिर्भयक्लेशविमोचनः ॥ १४ ॥

भरतागमसुप्रीतो भक्तो भक्तार्तिभञ्जनः ।

भयकृद्भरताराध्यो भरद्वाजऋषिस्तुतः ॥ १५ ॥

वरुणो वरुणाराध्यो वलारातिमुखस्तुतः ।

वज्रशक्त्यायुधोपेतो वरो वक्षःस्थलोज्ज्वलः ॥ १६ ॥

वस्तुरूपो वशिध्येयो वलित्रयविराजितः ।

वक्रालको वलयधृत् वलत्पीताम्बरोज्ज्वलः ॥ १७ ॥

वचोरूपो वचनदो वचोऽतीतचरित्रकः ।

वरदो वश्यफलदो वल्लीदेवीमनोहरः ॥ १८ ॥

इति श्रीसुब्रह्मण्य षडक्षराष्टोत्तरशतनामस्तोत्रम् ।

subrahmanya shadakshara ashtottara shatanama stotram