Skip to main content
पडताळणी प्रलंबित

श्री ललिताष्टोत्तरशतनाम स्तोत्रम् २

शिवा भवानी कल्याणी गौरी काली शिवप्रिया ।

कात्यायनी महादेवी दुर्गाऽऽर्या चण्डिका भवा ॥ १ ॥

चन्द्रचूडा चन्द्रमुखी चन्द्रमण्डलवासिनी ।

चन्द्रहासकरा चन्द्रहासिनी चन्द्रकोटिभा ॥ २ ॥

चिद्रूपा चित्कला नित्या निर्मला निष्कला कला ।

भव्या भवप्रिया भव्यरूपिणी कलभाषिणी ॥ ३ ॥

कविप्रिया कामकला कामदा कामरूपिणी ।

कारुण्यसागरा काली संसारार्णवतारका ॥ ४ ॥

दूर्वाभा दुष्टभयदा दुर्जया दुरितापहा ।

ललिता राज्यदा सिद्धा सिद्धेशी सिद्धिदायिनी ॥ ५ ॥

शर्मदा शान्तिरव्यक्ता शङ्खकुण्डलमण्डिता ।

शारदा शाङ्करी साध्वी श्यामला कोमलाकृतिः ॥ ६ ॥

पुष्पिणी पुष्पबाणाम्बा कमला कमलासना ।

पञ्चबाणस्तुता पञ्चवर्णरूपा सरस्वती ॥ ७ ॥

पञ्चमी परमा लक्ष्मीः पावनी पापहारिणी ।

सर्वज्ञा वृषभारूढा सर्वलोकवशङ्करी ॥ ८ ॥

सर्वस्वतन्त्रा सर्वेशी सर्वमङ्गलकारिणी ।

निरवद्या नीरदाभा निर्मला निश्चयात्मिका ॥ ९ ॥

निर्मदा नियताचारा निष्कामा निगमालया ।

अनादिबोधा ब्रह्माणी कौमारी गुरुरूपिणी ॥ १० ॥

वैष्णवी समयाचारा कौलिनी कुलदेवता ।

सामगानप्रिया सर्ववेदरूपा सरस्वती ॥ ११ ॥

अन्तर्यागप्रियाऽऽनन्दा बहिर्यागपरार्चिता ।

वीणागानरसानन्दा चार्धोन्मीलितलोचना ॥ १२ ॥

दिव्यचन्दनदिग्धाङ्गी सर्वसाम्राज्यरूपिणी ।

तरङ्गीकृतस्वापाङ्गवीक्षारक्षितसज्जना ॥ १३ ॥

सुधापानसमुद्वेलहेलामोहितधूर्जटिः ।

मतङ्गमुनिसम्पूज्या मतङ्गकुलभूषणा ॥ १४ ॥

मकुटाङ्गदमञ्जीरमेखलादामभूषिता ।

ऊर्मिकाकिङ्किणीरत्नकङ्कणादिपरिष्कृता ॥ १५ ॥

मल्लिकामालतीकुन्दमन्दाराञ्चितमस्तका ।

ताम्बूलकवलोदञ्चत्कपोलतलशोभिनी ॥ १६ ॥

त्रिमूर्तिरूपा त्रैलोक्यसुमोहनतनुप्रभा ।

श्रीमच्चक्राधिनगरीसाम्राज्यश्रीस्वरूपिणी ॥ १७ ॥

इदं नाम्नां साष्टशतं ललितायाः मतिप्रदम् ।

विद्याधनयशः कामपूर्तिदं सर्वमङ्गलम् ॥ १८ ॥

इति श्रीललिताष्टोत्तरशतनामस्तोत्रम् ।

sri lalitha ashtottara shatanama stotram 2