Skip to main content
पडताळणी प्रलंबित

श्री दुर्गाष्टकम्

कात्यायनि महामाये खड्गबाणधनुर्धरे ।

खड्गधारिणि चण्डि श्री दुर्गादेवि नमोऽस्तु ते ॥ १ ॥

वसुदेवसुते कालि वासुदेवसहोदरि ।

वसुन्धरश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २ ॥

योगनिद्रे महानिद्रे योगमाये महेश्वरि ।

योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३ ॥

शङ्खचक्रगदापाणे शार्ङ्गाद्यायुधबाहवे ।

पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४ ॥

ऋग्यजुः सामाथर्वाणश्चतुः सामन्तलोकिनि ।

ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५ ॥

वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि ।

वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६ ॥

सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि ।

सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७ ॥

अष्टबाहु महासत्त्वे अष्टमी नवमी प्रिये ।

अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८ ॥

दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।

सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥ ९ ॥

इति श्री दुर्गाष्टकम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri durga ashtakam