Skip to main content
पडताळणी प्रलंबित

श्री लक्ष्मीनारायणाष्टोत्तरशतनाम स्तोत्रम्

श्रीर्विष्णुः कमला शार्ङ्गी लक्ष्मीर्वैकुण्ठनायकः ।

पद्मालया चतुर्बाहुः क्षीराब्धितनयाऽच्युतः ॥ १ ॥

इन्दिरा पुण्डरीकाक्ष रमा गरुडवाहनः ।

भार्गवी शेषपर्यङ्को विशालाक्षी जनार्दनः ॥ २ ॥

स्वर्णाङ्गी वरदो देवी हरिरिन्दुमुखी प्रभुः ।

सुन्दरी नरकध्वंसी लोकमाता मुरान्तकः ॥ ३ ॥

भक्तप्रिया दानवारिः अम्बिका मधुसूदनः ।

वैष्णवी देवकीपुत्रो रुक्मिणी केशिमर्दनः ॥ ४ ॥

वरलक्ष्मी जगन्नाथः कीरवाणी हलायुधः ।

नित्या सत्यव्रतो गौरी शौरिः कान्ता सुरेश्वरः ॥ ५ ॥

नारायणी हृषीकेशः पद्महस्ता त्रिविक्रमः ।

माधवी पद्मनाभश्च स्वर्णवर्णा निरीश्वरः ॥ ६ ॥

सती पीताम्बरः शान्ता वनमाली क्षमाऽनघः ।

जयप्रदा बलिध्वंसी वसुधा पुरुषोत्तमः ॥ ७ ॥

राज्यप्रदाऽखिलाधारो माया कंसविदारणः ।

महेश्वरी महादेवो परमा पुण्यविग्रहः ॥ ८ ॥

रमा मुकुन्दः सुमुखी मुचुकुन्दवरप्रदः ।

वेदवेद्याऽब्धिजामाता सुरूपाऽर्केन्दुलोचनः ॥ ९ ॥

पुण्याङ्गना पुण्यपादो पावनी पुण्यकीर्तनः ।

विश्वप्रिया विश्वनाथो वाग्रूपी वासवानुजः ॥ १० ॥

सरस्वती स्वर्णगर्भो गायत्री गोपिकाप्रियः ।

यज्ञरूपा यज्ञभोक्ता भक्ताभीष्टप्रदा गुरुः ॥ ११ ॥

स्तोत्रक्रिया स्तोत्रकारः सुकुमारी सवर्णकः ।

मानिनी मन्दरधरो सावित्री जन्मवर्जितः ॥ १२ ॥

मन्त्रगोप्त्री महेष्वासो योगिनी योगवल्लभः ।

जयप्रदा जयकरः रक्षित्री सर्वरक्षकः ॥ १३ ॥

अष्टोत्तरशतं नाम्नां लक्ष्म्या नारायणस्य च ।

यः पठेत् प्रातरुत्थाय सर्वदा विजयी भवेत् ॥ १४ ॥

इति श्री लक्ष्मीनारायणाष्टोत्तरशतनाम स्तोत्रम् ।

sri lakshmi narayana ashtottara shatanama stotram