Skip to main content
पडताळणी प्रलंबित

चतुःषष्टि योगिनी नाम स्तोत्रम्

गजास्या सिंहवक्त्रा च गृध्रास्या काकतुण्डिका ।

उष्ट्रास्याऽश्वखरग्रीवा वाराहास्या शिवानना ॥ १ ॥

उलूकाक्षी घोररवा मायूरी शरभानना ।

कोटराक्षी चाष्टवक्त्रा कुब्जा च विकटानना ॥ २ ॥

शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ।

ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ॥ ३ ॥

कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ।

पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा ॥ ४ ॥

शिशुघ्नी पाशहन्त्री च काली रुधिरपायिनी ।

वसापाना गर्भभक्षा शवहस्ताऽऽन्त्रमालिका ॥ ५ ॥

ऋक्षकेशी महाकुक्षिर्नागास्या प्रेतपृष्ठका ।

दग्धशूकधरा क्रौञ्ची मृगशृङ्गा वृषानना ॥ ६ ॥

फाटितास्या धूम्रश्वासा व्योमपादोर्ध्वदृष्टिका ।

तापिनी शोषिणी स्थूलघोणोष्ठा कोटरी तथा ॥ ७ ॥

विद्युल्लोला बलाकास्या मार्जारी कटपूतना ।

अट्‍टहास्या च कामाक्षी मृगाक्षी चेति ता मताः ॥ ८ ॥

फलश्रुतिः –

चतुःषष्टिस्तु योगिन्यः पूजिता नवरात्रके ।

दुष्टबाधां नाशयन्ति गर्भबालादिरक्षिकाः ॥ ९ ॥

न डाकिन्यो न शाकिन्यो न कूष्माण्डा न राक्षसाः ।

तस्य पीडां प्रकुर्वन्ति नामान्येतानि यः पठेत् ॥ १० ॥

रणे राजकुले वापि विवादे जयदान्यपि ।

बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।

क्षिप्रं प्रसन्ना योगिन्यो प्रयच्छेयुर्मनोरथान् ॥ ११ ॥

इति श्रीलक्ष्मीनारायण संहितायां कृतयुगसन्तानाख्यानं नाम प्रथम खण्डे त्र्यशीतितमोऽध्याये चतुःषष्टियोगिनी स्तवराजः ।

chatushashti 64 yogini nama stotram