Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति स्तोत्रम् – ५ (सूतसंहितायाम्)

प्रलम्बितजटाबद्धं चन्द्ररेखावतंसकम् ।

नीलग्रीवं शरच्चन्द्रचन्द्रिकाभिर्विराजितम् ॥ १ ॥

गोक्षीरधवलाकारं चन्द्रबिम्बसमाननम् ।

सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥ २ ॥

गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् ।

सर्वाभरणसम्युक्तं सर्वलक्षणसम्युतम् ॥ ३ ॥

वीरासने समासीनं वेदयज्ञोपवीतिनम् ।

भस्मधाराभिरामं तं नागाभरणभूषितम् ॥ ४ ॥

व्याघ्रचर्माम्बरं शुद्धं योगपट्‍टावृतं शुभम् ।

सर्वेषां प्राणिनामात्मज्ञानापस्मारपृष्ठतः ॥ ५ ॥

विन्यस्तचरणं सम्यग् ज्ञानमुद्राधरं हरम् ।

सर्वविज्ञानरत्नानां कोशभूतं सुपुस्तकम् ॥ ६ ॥

दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि ।

स्वात्मभूतपरानन्दपराशक्त्यर्धविग्रहम् ॥ ७ ॥

धर्मरूपवृषोपेतं धार्मिकैर्वेदपारगैः ।

मुनिभिः संवृतं मायावटमूलाश्रितं शुभम् ॥ ८ ॥

ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम् ।

उत्पत्त्यादिविनिर्मुक्तमोङ्कारकमलासनम् ॥ ९ ॥

स्वात्मविद्याप्रदानेन सदा संसारमोचकम् ।

रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम् ॥ १० ॥

उपासकानां सर्वेषामभीष्टसकलप्रदम् ।

दक्षिणामूर्तिदेवाख्यं जगत्सर्गादिकारणम् ॥ ११ ॥

समागत्य महाभक्त्या दण्डवत्पृथिवीतले ।

प्रणम्य बहुशो देवं समाराध्य यथाबलम् ॥ १२ ॥

रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति ।

उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः ॥ १३ ॥

इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे चतुर्थोऽध्याये श्री दक्षिणामूर्ति स्तोत्रम् ॥

sri dakshinamurthy stotram 5