Skip to main content
पडताळणी प्रलंबित

श्री काली अपराधक्षमापण स्तोत्रम्

प्राग्देहस्थोय दाहं तव चरण युगान्नाश्रितो नार्चितोऽहं

तेनाद्या कीर्तिवर्गेर्जठरजदहनैर्बाद्ध्यमानो बलिष्ठैः ।

क्षिप्त्वा जन्मान्तरान्नः पुनरिहभविता क्वाश्रयः क्वापि सेवा

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १ ॥

बाल्येवालाभिलायैर्जडित जडमतिर्बाललीला प्रसक्तो

न त्वां जानामि मातः कलिकलुषहरा भोगमोक्ष प्रदात्रीम् ।

नाचारो नैव पूजा न च यजन कथा न स्मृतिर्नैव सेवा

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ २ ॥

प्राप्तोऽहं यौवनं चेद्विषधर सदृशैरिन्द्रियैर्दृष्ट गात्रो

नष्ट प्रज्ञः परस्त्री परधन हरणे सर्वदा साभिलाषः ।

त्वत्पादाम्भोजयुग्मं क्षणमपि मनसा न स्मृतोऽहं कदापि

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ३ ॥

प्रौढो भिक्षाभिलाषी सुत दुहितृ कलत्रार्थमन्नादि चेष्ट

क्व प्राप्स्ये कुत्रयामी त्वनुदिनमनिशं चिन्तयामग्न देहः ।

नोतेध्यानन्त चास्था न च भजन विधिन्नाम सङ्कीर्तनं वा

क्षन्तव्योमेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ४ ॥

वृद्धत्वे बुद्धिहीनः कृश विवशतनुः श्वासकासातिसारैः

कर्णनिहोऽक्षिहीनः प्रगलित दशनः क्षुत्पिपासाभिभूतः ।

पश्चात्तापेनदग्धो मरणमनुदिनं ध्येय मात्रन्नचान्यत्

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ५ ॥

कृत्वास्नानं दिनादौ क्वचिदपि सलिलं नोकृतं नैव पुष्पं

ते नैवेद्यादिकं च क्वचिदपि न कृतं नापिभावो न भक्तिः ।

न न्यासो नैव पूजां न च गुण कथनं नापि चार्चाकृता ते

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ६ ॥

जानामि त्वां न चाहं भवभयहरणीं सर्वसिद्धिप्रदात्रीं

नित्यानन्दोदयाढ्यां त्रितय गुणमयी नित्यशुद्धोदयाढ्याम् ।

मिथ्याकर्माभिलाषैरनुदिनमभितः पीडितो दुःख सङ्घैः

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ७ ॥

कालाभ्रां श्यामालाङ्गीं विगलित चिकुरा खड्गमुण्डाभिरामां

त्रास त्राणेष्टदात्रीं कुणपगणशिरो मालिनीं दीर्घनेत्राम् ।

संसारस्यैकसारां भवजन न हराम्भावितोभावनाभिः

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ८ ॥

ब्रह्मा विष्णुस्तथेशः परिणमति सदा त्वत्पदाम्भोज युक्तं

भाग्याभावान्न चाहं भवजननि भवत्पादयुग्मं भजामि ।

नित्यं लोभ प्रलोभैः कृतविशमतिः कामुकस्त्वां प्रयाषे

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ९ ॥

रागद्वेषैः प्रमत्तः कलुषयुततनुः कामनाभोगलुब्धः

कार्याकार्या विचारी कुलमति रहितः कौलसङ्घैर्विहीनः ।

क्व ध्यानम् ते क्व चार्चा क्व मनुजपनन्नैव किञ्चित् कृतोऽहं

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १० ॥

रोगी दुःखी दरिद्रः परवशकृपणः पांशुलः पाप चेता

निद्रालस्य प्रसक्ताः सुजठरभरणे व्याकुलः कल्पितात्मा ।

किं ते पूजा विधानं त्वयि क्वचनुमतिः क्वानुरागः क्वचास्था

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ११ ॥

मिथ्या व्यामोह रागैः परिवृतमनसः क्लेशसङ्घान्वितस्य

क्षुन्निद्रौघान्वितस्य स्मरण विरहिणः पापकर्म प्रवृत्तेः ।

दारिद्र्यस्य क्व धर्मः क्व च जननिरुचिः क्व स्थितिः साधुसङ्घैः

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १२ ॥

मातस्तातस्यदेहाज्जननि जठरगः संस्थितस्त्वद्वशेहन्

त्वं हर्ता कारयित्री करण गुणमयी कर्महेतु स्वरूपा ।

त्वं बुद्धिश्चित्त संस्थाप्यहमतिभवती सर्वमेतत् क्षमस्व

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १३ ॥

त्वं भूमिस्त्वं जलं च त्वमसि हुतवहस्त्वं जगद्वायुरूपा

त्वं चाकाशं मनश्च प्रकृतिरसि महत्पूर्विका पूर्वपूर्वा ।

आत्मा त्वं चाऽसि मातः परमसि भवती त्वत्परन्नैव किञ्चित्

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १४ ॥

त्वं काली त्वं च तारा त्वमसि गिरिसुता सुन्दरी भैरवी त्वं

त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मीः शिवा त्वम् ।

धूमा मातङ्गिनी त्वं त्वमसि च बगला मङ्गलादिस्तवाख्या

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १५ ॥

स्तोत्रेणानेन देवीं परिणमति जनो यः सदाभक्तियुक्तो

दुष्कृत्यादुर्ग सङ्घं परितरति शतं विघ्नतां नाशमेति ।

नाधिर्व्याधि कदाचिद्भवति यदि पुनः सर्वदा साऽपराधः

सर्वं तत् कामरूपे त्रिभुवनजननि क्षामये पुत्र बुद्ध्या ॥ १६ ॥

ज्ञाता वक्ता कवीशो भवति धनपतिर्दानशीलो दयात्मा

निष्पापी निष्कलङ्की कुलपति कुशलः सत्यवाग्धार्मिकश्च ।

नित्यानन्दो दयाढ्यः पशुगणविमुखः सत्पथा चारुशीलः

संसाराब्धिं सुकेन प्रतरति गिरिजा पादयुग्मावलम्बात् ॥ १७ ॥

इति श्री काली अपराधक्षमापण स्तोत्रम् ॥

sri kali aparadha kshamapana stotram