Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्त्यष्टकम् – २ (व्यास कृतम्)

श्रीव्यास उवाच ।

श्रीमद्गुरो निखिलवेदशिरोनिगूढ

ब्रह्मात्मबोध सुखसान्द्रतनो महात्मन् ।

श्रीकान्तवाक्पति मुखाखिलदेवसङ्घ

स्वात्मावबोधक परेश नमो नमस्ते ॥ १ ॥

सान्निध्यमात्रमुपलभ्यसमस्तमेत-

-दाभाति यस्य जगदत्र चराचरं च ।

चिन्मात्रतां निजकराङ्गुलिमुद्रया यः

स्वस्यानिशं वदति नाथ नमो नमस्ते ॥ २ ॥

जीवेश्वराद्यखिलमत्र विकारजातं

जातं यतः स्थितमनन्तसुखे च यस्मिन् ।

येनोपसंहृतमखण्डचिदेकशक्त्या

स्वाभिन्नयैव जगदीश नमो नमस्ते ॥ ३ ॥

यः स्वांशजीवसुखदुःखफलोपभोग-

-हेतोर्वपूंषि विविधानि च भौतिकानि ।

निर्माय तत्र विशता करणैः सहान्ते

जीवेन साक्ष्यमत एव नमो नमस्ते ॥ ४ ॥

हृत्पुण्डरीकगतचिन्मणिमात्मरूपं

यस्मिन् समर्पयति योगबलेन विद्वान् ।

यः पूर्णबोधसुखलक्षण एकरूप

आकाशवद्विभुरुमेश नमो नमस्ते ॥ ५ ॥

यन्मायया हरिहर द्रुहिणा बभूवुः

सृष्ट्यादिकारिण इमे जगतामधीशाः ।

यद्विद्ययैव परयात्रहि वश्यमाया

स्थैर्यं गता गुरुवरेश नमो नमस्ते ॥ ६ ॥

स्त्रीपुंनपुंसकसमाह्वय लिङ्गहीनो-

-ऽप्यास्तेत्रिलिङ्गक उमेशतया य एव ।

सत्यप्रबोध सुखरूपतया त्वरूप-

-वत्त्वे न च त्रिजगदीश नमो नमस्ते ॥ ७ ॥

जीवत्रयं भ्रमति वै यदविद्ययैव

संसारचक्र इह दुस्तर दुःखहेतौ ।

यद्विद्ययैव निजबोधरतं स्ववश्या

विद्यं च तद्भवति साम्ब नमो नमस्ते ॥ ७ ॥

इति श्रीव्यासकृत श्री दक्षिणामूर्त्यष्टकम् ।

vyasa krita dakshinamurthy ashtakam