Skip to main content
पडताळणी प्रलंबित

श्री गौरी दशकम्

लीलालब्धस्थापितलुप्ताखिललोकां

लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।

बालादित्यश्रेणिसमानद्युतिपुञ्जां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥

प्रत्याहारध्यानसमाधिस्थितिभाजां

नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।

सत्यज्ञानानन्दमयीं तां तनुरूपां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां

चन्द्रापीडालङ्कृतनीलालकभाराम् ।

इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं

भूते भूते भूतकदम्बप्रसवित्रीम् ।

शब्दब्रह्मानन्दमयीं तां तटिदाभां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं

सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।

येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥

नित्यः शुद्धो निष्कल एको जगदीशः

साक्षी यस्याः सर्गविधौ संहरणे च ।

विश्वत्राणक्रीडनलोलां शिवपत्नीं

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं

भूयो भूयः प्रादुरभूदुत्थितमेव ।

पत्या सार्धं तां रजताद्रौ विहरन्तीं

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥

यस्यामोतं प्रोतमशेषं मणिमाला-

-सूत्रे यद्वत्कापि चरं चाप्यचरं च ।

तामध्यात्मज्ञानपदव्या गमनीयां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥

नानाकारैः शक्तिकदम्बैर्भुवनानि

व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।

कल्याणीं तां कल्पलतामानतिभाजां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९ ॥

आशापाशक्लेशविनाशं विदधानां

पादाम्भोजध्यानपराणां पुरुषाणाम् ।

ईशामीशार्धाङ्गहरां तामभिरामां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥

प्रातःकाले भावविशुद्धः प्रणिधाना-

-द्भक्त्या नित्यं जल्पति गौरीदशकं यः ।

वाचां सिद्धिं सम्पदमग्र्यां शिवभक्तिं

तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ गौरी दशकम् ।

gauri dashakam