Skip to main content
पडताळणी प्रलंबित

श्री शिव स्तुतिः (इन्द्रादि कृतम्)

नमामि सर्वे शरणार्थिनो वयं

महेश्वर त्र्यम्बक भूतभावन ।

उमापते विश्वपते मरुत्पते

जगत्पते शङ्कर पाहि नस्स्वयम् ॥ १ ॥

जटाकलापाग्र शशाङ्कदीधिति

प्रकाशिताशेषजगत्त्रयामल ।

त्रिशूलपाणे पुरुषोत्तमाऽच्युत

प्रपाहिनो दैत्यभयादुपस्थितात् ॥ २ ॥

त्वमादिदेवः पुरुषोत्तमो हरि-

र्भवो महेशस्त्रिपुरान्तको विभुः ।

भगाक्षहा दैत्यरिपुः पुरातनो

वृषध्वजः पाहि सुरोत्तमोत्तम ॥ ३ ॥

गिरीशजानाथ गिरिप्रियाप्रिय

प्रभो समस्तामरलोकपूजित ।

गणेश भूतेश शिवाक्षयाव्यय

प्रपाहि नो दैत्यवरान्तकाऽच्युत ॥ ४ ॥

पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो

ध्वनिस्वरूपो गगने विशेषतः ।

लिनो द्विधा तेजसि स त्रिधाजले

चतुःक्षितौ पञ्चगुणप्रधानः ॥ ५ ॥

अग्निस्वरूपोसि तरौ तथोपले

सत्त्वस्वरूपोसि तथा तिलेष्वपि ।

तैलस्वरूपो भगवान् महेश्वरः

प्रपाहि नो दैत्यगणार्दितान् हर ॥ ६ ॥

नासीद्यदाकाण्डमिदं त्रिलोचन

प्रभाकरेन्द्रेन्दु विनापि वा कुतः ।

तदा भवानेव विरुद्धलोचन

प्रमादबाधादिविवर्जितः स्थितः ॥ ७ ॥

कपालमालिन् शशिखण्डशेखर

श्मशानवासिन् सितभस्मगुम्भित ।

फणीन्द्रसंवीततनोन्तकान्तक

प्रपाहि नो दक्षधिया सुरेश्वर ॥ ८ ॥

भवान् पुमान् शक्तिरियं गिरेस्सुता

सर्वाङ्गरूपा भगवन्-स्तदात्वयि ।

त्रिशूलरूपेण जगद्भयङ्करे

स्थितं त्रिनेत्रेषु मखाग्नयस्त्रयः ॥ ९ ॥

जटास्वरूपेण समस्तसागराः

कुलाचलास्सिन्धुवहाश्च सर्वशः ।

शरीरजं ज्ञानमिदं त्ववस्थितं

तदेव पश्यन्ति कुदृष्ट यो जनाः ॥ १० ॥

नारायणस्त्वं जगतां समुद्भव-

स्तथा भवानेव चतुर्मुखो महान् ।

सत्त्वादिभेदेन तथाग्निभेदितो

युगादिभेदेन च संस्थितस्त्रिधा ॥ ११ ॥

भवन्तमेते सुरनायकाः प्रभो

भवार्थिनोऽन्यस्य वदन्ति तोषयन् ।

यतस्ततोनो भव भूतिभूषण

प्रप्राहि विश्वेश्वर रुद्र ते नमः ॥ १२ ॥

इति श्री वराहपुराणे इन्द्रादिकृत शिवस्तुतिः ।

indra krita shiva stuti