Skip to main content
पडताळणी प्रलंबित

श्री श्यामला षोडशनाम स्तोत्रम्

हयग्रीव उवाच ।

सङ्गीतयोगिनी श्यामा श्यामला मन्त्रनायिका ।

मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥ १ ॥

वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया ।

नीपप्रिया कदम्बेशी कदम्बवनवासिनी ॥ २ ॥

सदामदा च नामानि षोडशैतानि कुम्भज ।

एतैर्यः सचिवेशानीं सकृत् स्तौति शरीरवान् ।

तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥ ३ ॥

इति श्री ब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोऽध्याये श्री श्यामला षोडशनाम स्तोत्रम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri shyamala shodashanama stotram