Skip to main content
पडताळणी प्रलंबित

श्री ललिता अष्टकारिका स्तोत्रम् (आविर्भाव स्तुतिः)

विश्वरूपिणि सर्वात्मे विश्वभूतैकनायकि ।

ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ १ ॥

आनन्दरूपिणि परे जगदानन्ददायिनि ।

ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ २ ॥

ज्ञातृज्ञानज्ञेयरूपे महाज्ञानप्रकाशिनि ।

ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ३ ॥

लोकसंहाररसिके कालिके भद्रकालिके ।

ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ४ ॥

लोकसन्त्राणरसिके मङ्गले सर्वमङ्गले ।

ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ५ ॥

विश्वसृष्टिपराधीने विश्वनाथे विशङ्कटे ।

ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ६ ॥

संविद्वह्नि हुताशेष सृष्टिसम्पादिताकृते ।

ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ७ ॥

भण्डाद्यैस्तारकाद्यैश्च पीडितानां सतां मुदे ।

ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ८ ॥

इति श्री ललिता अष्टकारिका स्तोत्रम् ।

sri lalitha ashtakarika stotram