Skip to main content
पडताळणी प्रलंबित

श्री कुमार स्तुतिः (विप्र कृतम्)

विप्र उवाच ।

शृणु स्वामिन्वचो मेऽद्य कष्टं मे विनिवारय ।

सर्वब्रह्माण्डनाथस्त्वमतस्ते शरणं गतः ॥ १ ॥

अजमेधाध्वरं कर्तुमारम्भं कृतवानहम् ।

सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबन्धनम् ॥ २ ॥

न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु ।

न प्राप्तोऽतस्स बलवान् भङ्गो भवति मे क्रतोः ॥ ३ ॥

त्वयि नाथे सति विभो यज्ञभङ्गः कथं भवेत् ।

विचार्यैवाऽखिलेशान काम पूर्णं कुरुष्व मे ॥ ४ ॥

त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो ।

सर्वब्रह्माण्डनाथं हि सर्वामरसुसेवितम् ॥ ५ ॥

दीनबन्धुर्दयासिन्धुः सुसेव्या भक्तवत्सलः ।

हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ॥ ६ ॥

पार्वतीनन्दनः स्कन्दः परमेकः परन्तपः ।

परमात्मात्मदः स्वामी सतां च शरणार्थिनाम् ॥ ७ ॥

दीनानाथ महेश शङ्करसुत त्रैलोक्यनाथ प्रभो

मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय ।

त्वं सर्वप्रभुप्रियः खिलविदब्रह्मादिदेवैस्तुत-

-स्त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ॥ ८ ॥

भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोऽसि शम्भुप्रियः

शम्भुः शम्भुसुतः प्रसन्नसुखदः सच्चित्स्वरूपो महान् ।

सर्वज्ञस्त्रिपुरघ्नशङ्करसुतः सत्प्रेमवश्यः सदा

षड्वक्त्रः प्रियसाधुरानतप्रियः सर्वेश्वरः शङ्करः ।

साधुद्रोहकरघ्न शङ्करगुरो ब्रह्माण्डनाथो प्रभुः

सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय ॥ ९ ॥

वैरिभयङ्कर शङ्कर जनशरणस्य

वन्दे तव पदपद्मं सुखकरणस्य ।

विज्ञप्तिं मम कर्णे स्कन्द निधेहि

निजभक्तिं जनचेतसि सदा विधेहि ॥ १० ॥

करोति किं तस्य बली विपक्षो

-दक्षोऽपि पक्षोभयापार्श्वगुप्तः ।

किन्तक्षकोप्यामिषभक्षको वा

त्वं रक्षको यस्य सदक्षमानः ॥ ११ ॥

विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्या-

-त्कथय कथमहं स्यां मन्दबुद्धिर्वरार्च्यः ।

शुचिरशुचिरनार्यो यादृशस्तादृशो वा

पदकमल परागं स्कन्द ते प्रार्थयामि ॥ १२ ॥

हे सर्वेश्वर भक्तवत्सल कृपासिन्धो त्वदीयोऽस्म्यहं

भृत्यः स्वस्य न सेवकस्य गणपस्यागः शतं सत्प्रभो ।

भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा

त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ॥ १३ ॥

कल्याणकर्ता कलिकल्मषघ्नः

कुबेरबन्धुः करुणार्द्रचित्तः ।

त्रिषट्कनेत्रो रसवक्त्रशोभी

यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ॥ १४ ॥

रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः ।

यज्ञकर्ता यज्ञभर्ता हरसे विघ्नकारिणाम् ॥ १५ ॥

विघ्नवारण साधूनां सर्गकारण सर्वतः ।

पूर्णं कुरु ममेशान सुतयज्ञ नमोऽस्तु ते ॥ १६ ॥

सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि ।

सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ॥ १७ ॥

सङ्गीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः ।

सर्वस्थाता विधाता त्वं देवदेवः सतां गतिः ॥ १८ ॥

भवानीनन्दनः शम्भुतनयो वयुनः स्वराट् ।

ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम् ॥ १९ ॥

इति श्रीशिवमहापुराणे रुद्रसंहितायां कुमारखण्डे षष्ठोऽध्याये श्रीकुमारस्तुतिः ।

sri kumara stuti