Skip to main content
पडताळणी प्रलंबित

श्री गायत्र्यष्टोत्तरशतनाम स्तोत्रम् १

श्रीगायत्री जगन्माता परब्रह्मस्वरूपिणी ।

परमार्थप्रदा जप्या ब्रह्मतेजोविवर्धिनी ॥ १ ॥

ब्रह्मास्त्ररूपिणी भव्या त्रिकालध्येयरूपिणी ।

त्रिमूर्तिरूपा सर्वज्ञा वेदमाता मनोन्मनी ॥ २ ॥

बालिका तरुणी वृद्धा सूर्यमण्डलवासिनी ।

मन्देहदानवध्वंसकारिणी सर्वकारणा ॥ ३ ॥

हंसारूढा वृषारूढा गरुडारोहिणी शुभा ।

षट्कुक्षिस्त्रिपदा शुद्धा पञ्चशीर्षा त्रिलोचना ॥ ४ ॥

त्रिवेदरूपा त्रिविधा त्रिवर्गफलदायिनी ।

दशहस्ता चन्द्रवर्णा विश्वामित्रवरप्रदा ॥ ५ ॥

दशायुधधरा नित्या सन्तुष्टा ब्रह्मपूजिता ।

आदिशक्तिर्महाविद्या सुषुम्नाख्या सरस्वती ॥ ६ ॥

चतुर्विंशत्यक्षराढ्या सावित्री सत्यवत्सला ।

सन्ध्या रात्रिः प्रभाताख्या साङ्ख्यायनकुलोद्भवा ॥ ७ ॥

सर्वेश्वरी सर्वविद्या सर्वमन्त्रादिरव्यया ।

शुद्धवस्त्रा शुद्धविद्या शुक्लमाल्यानुलेपना ॥ ८ ॥

सुरसिन्धुसमा सौम्या ब्रह्मलोकनिवासिनी ।

प्रणवप्रतिपाद्यार्था प्रणतोद्धरणक्षमा ॥ ९ ॥

जलाञ्जलिसुसन्तुष्टा जलगर्भा जलप्रिया ।

स्वाहा स्वधा सुधासंस्था श्रौषड्वौषड्वषट्क्रिया ॥ १० ॥

सुरभिः षोडशकला मुनिबृन्दनिषेविता ।

यज्ञप्रिया यज्ञमूर्तिः स्रुक्स्रुवाज्यस्वरूपिणी ॥ ११ ॥

अक्षमालाधरा चाऽक्षमालासंस्थाऽक्षराकृतिः ।

मधुच्छन्दऋषिप्रीता स्वच्छन्दा छन्दसां निधिः ॥ १२ ॥

अङ्गुलीपर्वसंस्थाना चतुर्विंशतिमुद्रिका ।

ब्रह्ममूर्ती रुद्रशिखा सहस्रपरमाऽम्बिका ॥ १३ ॥

विष्णुहृद्गा चाग्निमुखी शतमध्या दशावरा ।

सहस्रदलपद्मस्था हंसरूपा निरञ्जना ॥ १४ ॥

चराचरस्था चतुरा सूर्यकोटिसमप्रभा ।

पञ्चवर्णमुखी धात्री चन्द्रकोटिशुचिस्मिता ॥ १५ ॥

महामाया विचित्राङ्गी मायाबीजनिवासिनी ।

सर्वयन्त्रात्मिका सर्वतन्त्ररूपा जगद्धिता ॥ १६ ॥

मर्यादापालिका मान्या महामन्त्रफलप्रदा ।

इत्यष्टोत्तरनामानि गायत्र्याः प्रोक्तवान्मुनिः ॥ १७ ॥

एतदष्टोत्तरशतं नित्यं भक्तियुतः शुचिः ।

त्रिसन्ध्यं यः पठेत्सर्वमन्त्रसिद्धिमवाप्नुयात् ॥ १८ ॥

इति श्रीवसिष्ठ प्रोक्त श्री गायत्र्यष्टोत्तरशतनाम स्तोत्रम् ।

sri gayatri ashtottara shatanama stotram 1