Skip to main content
पडताळणी प्रलंबित

श्री दुर्गाष्टोत्तरशतनाम स्तोत्रम् १

ईश्वर उवाच ।

शतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।

यस्य प्रसादमात्रेण दुर्गा प्रीता सदा भवेत् ॥ १ ॥

सती साध्वी भवप्रीता भवानी भवमोचनी ।

आर्या दुर्गा जया आद्या त्रिनेत्रा शूलधारिणी ॥ २ ॥

पिनाकधारिणी चित्रा चन्द्रघण्टा महातपा ।

मनोबुद्धिरहङ्कारा चित्तरूपा चिता चितिः ॥ ३ ॥

सर्वमन्त्रमयी सत्या सत्यानन्दस्वरूपिणी ।

अनन्ता भाविनी भाव्या भवा भव्या सदागतिः ॥ ४ ॥

शम्भुपत्नी देवमाता चिन्ता रत्नप्रिया सदा ।

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ॥ ५ ॥

अपर्णा चैव पर्णा च पाटला पाटलावती ।

पट्‍टाम्बरपरीधाना कलमञ्जीररञ्जिनी ॥ ६ ॥

अमेया विक्रमा क्रूरा सुन्दरी सुरसुन्दरी ।

वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥ ७ ॥

ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।

चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥ ८ ॥

विमलोत्कर्षिणी ज्ञानक्रिया सत्या च वाक्प्रदा ।

बहुला बहुलप्रेमा सर्ववाहनवाहना ॥ ९ ॥

निशुम्भशुम्भहननी महिषासुरमर्दिनी ।

मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥ १० ॥

सर्वासुरविनाशा च सर्वदानवघातिनी ।

सर्वशास्त्रमयी विद्या सर्वास्त्रधारिणी तथा ॥ ११ ॥

अनेकशस्त्रहस्ता च अनेकास्त्रविधारिणी ।

कुमारी चैव कन्या च कौमारी युवती यतिः ॥ १२ ॥

अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा ।

श्रद्धा शान्तिर्धृतिः कान्तिर्लक्ष्मीर्जातिः स्मृतिर्दया ॥ १३ ॥

तुष्टिः पुष्टिश्चितिर्भ्रान्तिर्माता क्षुच्चेतना मतिः ।

विष्णुमाया च निद्रा च छाया कामप्रपूरणी ॥ १४ ॥

य इदं च पठेत् स्तोत्रं दुर्गानामशताष्टकम् ।

नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ १५ ॥

धनं धान्यं सुतन् जायां हयं हस्तिनमेव च ।

चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ॥ १६ ॥

कुमारीः पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् ।

पूजयेत्परया भक्त्या पठेन्नामशताष्टकम् ॥ १७ ॥

तस्य सिद्धिर्भवेद्देवि सर्वैः सुरवरैरपि ।

राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ॥ १८ ॥

गोरोचनालक्तककुङ्कुमेन सिन्दूरकर्पूरमधुत्रयेण ।

विलिख्य यन्त्रं विधिना विधिज्ञो भवेत्सदा धारयता पुरारिः ॥ १९ ॥

भौमावास्या निशाभागे चन्द्रे शतभिषां गते ।

विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदां पदम् ॥ २० ॥

इति श्रीविश्वसारतन्त्रे श्री दुर्गाष्टोत्तरशतनाम स्तोत्रम् ।

sri durga ashtottara satanama stotram 1