Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी कीलक स्तोत्रम्

ह्लीं ह्लीं ह्लीङ्कारवाणे रिपुदलदलने घोरगम्भीरनादे

ह्रीं ह्रीं ह्रीङ्काररूपे मुनिगणनमिते सिद्धिदे शुभ्रदेहे ।

भ्रों भ्रों भ्रोङ्कारनादे निखिलरिपुघटात्रोटने लग्नचित्ते

मातर्मातर्नमस्ते सकलभयहरे नौमि पीताम्बरे त्वाम् ॥ १ ॥

क्रौं क्रौं क्रौंमीशरूपे अरिकुलहनने देहकीले कपाले

हस्रौं हस्रौं स्वरूपे समरसनिरते दिव्यरूपे स्वरूपे ।

ज्रौं ज्रौं ज्रौं जातरूपे जहि जहि दुरितं जम्भरूपे प्रभावे

कालि कङ्कालरूपे अरिजनदलने देहि सिद्धिं परां मे ॥ २ ॥

हस्रां हस्रीं च हस्रैं त्रिभुवनविदिते चण्डमार्तण्डचण्डे

ऐं क्लीं सौं कौलविद्ये सततशमपरे नौमि पीतस्वरूपे ।

द्रौं द्रौं द्रौं दुष्टचित्ताऽऽदलनपरिणतबाहुयुग्मत्वदीये ।

ब्रह्मास्त्रे ब्रह्मरूपे रिपुदलहनने ख्यातदिव्यप्रभावे ॥ ३ ॥

ठं ठं ठङ्कारवेशे ज्वलनप्रतिकृतिज्वालमालास्वरूपे

धां धां धां धारयन्तीं रिपुकुलरसनां मुद्गरं वज्रपाशम् ।

डां डां डां डाकिन्याद्यैर्डिमकडिमडिमं डमरुकं वादयन्तीं

मातर्मातर्नमस्ते प्रबलखलजनं पीडयन्तीं भजामि ॥ ४ ॥

वाणीं व्याख्यानदात्रीं रिपुमुखखनने वेदशास्त्रार्थपूतां

मातः श्रीबगले परात्परतरे वादे विवादे जयम् ।

देहि त्वं शरणागतोऽस्मि विमले देवि प्रचण्डोद्धृते ।

माङ्गल्यं वसुधासु देहि सततं सर्वस्वरूपे शिवे ॥ ५ ॥

निखिलमुनिनिषेव्यं स्तम्भनं सर्वशत्रोः

शमपरमिह नित्यं ज्ञानिनां हार्दरूपम् ।

अहरहरनिशायां यः पठेद्देवि कीलं

भवति परमेशो वादिनामग्रगण्यः ॥ ६ ॥

इति श्री बगलामुखी कीलक स्तोत्रम् ॥

sri bagalamukhi keelaka stotram