Skip to main content
पडताळणी प्रलंबित

श्री काशीविश्वनाथ अष्टोत्तरशतनाम स्तोत्रम्

(धन्यवादः – काशीपुरीवास गुरुमूर्ति शिवयोगि श्री निर्मल रामनाथ शर्म महोदयः)

अखिलागमसंस्तुतं अजादिदेववन्दितम् ।

अखण्डमण्डलाकारं अनेकजनसेवितम् ॥ १ ॥

अनाद्यन्तस्वयम्भूतं आशापाशविमोचकम् ।

आनन्दकाननाधीशं चैवानन्दप्रदायकम् ॥ २ ॥

इहलोकस्पृहानेकपरिपूरकस्वामिनम् ।

ईशित्वाद्यष्टसिद्धिनं इन्द्रियग्रामदैवतम् ॥ ३ ॥

उरगराजभूषणं उडुराजविभूषितम् ।

ऊर्ध्वलिङ्गं उमाकान्तं उरुदुःखविमोचकम् ॥ ४ ॥

महोज्ज्वलस्वरूपं च त्रिपुण्ड्राङ्कितमस्तकम् ।

अन्नपूर्णाविशालाक्षीनाथं गङ्गाधरं विभुम् ॥ ५ ॥

भावनामात्रसन्तुष्टहृदयं हृदयेश्वरम् ।

भूतभव्यभवन्नाथं भवरोगहरं हरम् ॥ ६ ॥

महाश्मशानदेवेशं भुक्तिमुक्तिफलप्रदम् ।

महोक्षवाहनारूढं मृगहस्तं महेश्वरम् ॥ ७ ॥

उग्रं भीमं मृडं शर्वं सर्वैश्वर्यप्रदायकम् ।

नन्दीश्वरादिसंस्तुतं त्रिनेत्रं ताण्डवेश्वरम् ॥ ८ ॥

विश्वेशं विश्वरूपं च विश्वकारणमव्ययम् ।

विषकण्ठं विरूपाक्षं वीरभद्रप्रियं शिवम् ॥ ९ ॥

महादेवं महेशानं महनीयगुणाकरम् ।

श्रीमणिकर्णिकेशं च श्रीमाधवप्रियं प्रभुम् ॥ १० ॥

महादेवीसमायुक्तशरीरं परमेश्वरम् ।

मृत्युञ्जयं मृडानीशं महाभयनिवारकम् ॥ ११ ॥

भक्तमानसरोवरविहारासक्तः शूलिनम् ।

भवदुःखविभञ्जकं भक्तवरप्रदायकम् ॥ १२ ॥

गङ्गास्नपितसर्वाङ्गं बिल्वपत्रादिपूजितम् ।

नानालङ्कारसम्युक्तं दिव्यगन्धानुलेपितम् ॥ १३ ॥

त्रयीवेद्यं त्रिलोकेशं तापत्रयप्रभञ्जकम् ।

त्रिपुरसुन्दरीरूपं त्र्यम्बकं त्रिपुरान्तकम् ॥ १४ ॥

वाराणसीपुराधीशं वररुद्राक्षधारिणम् ।

व्यालयज्ञोपवीतिनं व्याघ्रचर्मविभूषितम् ॥ १५ ॥

सुरासुरनमस्कृतश्रीमच्चरणपङ्कजम् ।

सदैकरसरूपं च सदानटनतत्परम् ॥ १६ ॥

सत्यज्ञानात्मकं सोमं सोमसूर्याग्निलोचनम् ।

कालभैरवमीशानं कालाग्निरुद्रमीश्वरम् ॥ १७ ॥

शुद्धकैवल्यरूपं च शुद्धविद्याप्रदायकम् ।

शान्तं पद्मासनस्थं च श्रीकण्ठं चन्द्रशेखरम् ॥ १८ ॥

गिरीशं गिरिजापतिं पशुपाशविमोचकम् ।

यज्ञेशं नीलग्रीवं च योगिहृत्पद्मवासिनम् ॥ १९ ॥

कोटिसूर्यसमप्रभं चन्द्रकोटिसुशीतलम् ।

जाग्रत्स्वप्नसुषुप्तीनां साक्षीभूतं चिदात्मकम् ॥ २० ॥

सर्वव्यापकदेवेशं विश्वनाथमहर्निशम् ।

सदैवलिङ्गरूपं तं परानन्दपरात्परम् ॥ २१ ॥

अष्टोत्तरैकशिवनाम समन्वितं यत्

स्तोत्रं पठन्ति मनुजा भुवि भक्तियुक्ताः ।

सम्प्राप्य लौकिकसुखानि परं लभन्ते

देहावसानसमये शिव सम्प्रसादात् ॥ २२ ॥

इति श्री काशीविश्वनाथ अष्टोत्तरशतनाम स्तोत्रम् ॥

sri kashi vishwanatha ashtottara shatanama stotram