Skip to main content
पडताळणी प्रलंबित

श्री त्रिपुरसुन्दरी स्तोत्रम्

ध्यानम् ।

बालार्कमण्डलाभासां चतुर्बाहां त्रिलोचनाम् ।

पाशाङ्कुश शराञ्श्चापान् धारयन्तीं शिवां भजे ॥ १ ॥

बालार्कयुततैजसां त्रिनयनां रक्ताम्बरोल्लासिनीं ।

नानालङ्कृतिराजमानवपुषं बालेन्दु युक् शेखरां ।

हस्तैरिक्षुधनुः सृणिं सुमशरां पाशं मुदाबिभ्रतीं

श्रीचक्रस्थित सुन्दरीं त्रिजगतामाधारभूतां भजे ॥ २ ॥

पद्मराग प्रतीकाशां सुनेत्रां चन्द्रशेखराम्

नवरत्नलसद्भूषां भूषितापादमस्तकाम् ॥ ३ ॥

पाशाङ्कुशौ पुष्प शरान् दधतीं पुण्ड्रचापकम्

पूर्ण तारुण्य लावण्य तरङ्गित कलेबराम् ॥ ४ ॥

स्व समानाकारवेषकामेशाश्लेष सुन्दराम् ।

चतुर्भुजे चन्द्रकलावतंसे

कुचोन्नते कुङ्कुम राग श्रोणे

पुण्ड्रेक्षु पाशाङ्कुश पुष्पबाण हस्ते

नमस्ते जगदेक मातः ॥

स्तोत्रम् ॥

श्रीं बीजे नाद बिन्दुद्वितय शशि कलाकाररूपे स्वरूपे

मातर्मे देहि बुद्दिं जहि जहि जडतां पाहिमां दीन दीनम् ।

अज्ञान ध्वान्त नाशक्षमरुचिरुचिर प्रोल्लसत्पाद पद्मे

ब्रह्मेशाद्यःसुरेन्द्रैः सुरगण विनतैः संस्तुतां त्वां नमामि ॥ १ ॥

कल्पो सम्परण कल्पित ताण्डवस्य

देवस्य खण्डपरशोः परभैरवस्य ।

पाशाङ्कुशैक्षवशरासन पुष्पबाणा

ससाक्षिणी विजयते तव मूर्तिरेका ॥ २ ॥

ह्रीङ्कारमेव तवनाम गृणन्ति येवा

मातः त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।

त्वत्संस्मृतौ यमभटाभि भवं विहाय

दीव्यन्ति नन्दन वने सहलोकपालैः ॥ ३ ॥

ऋणाङ्कानल भानुमण्डललसच्छ्रीचक्रमध्येस्थिताम्

बालार्कद्युति भासुरां करतलैः पाशाङ्कुशौ बिभ्रतीं ।

चापं बाणमपि प्रसन्नवदनां कौसुंभवस्त्रान्वितां

तां त्वां चन्द्रकलावतंसमुकुटां चारुस्मितां भावये ॥ ४ ॥

सर्वज्ञतां सदसिवाक्पटुतां प्रसूते

देवि त्वदङ्घ्रि नरसिरुहयोः प्रणामः ।

किञ्चित्स्फुरन्मुकुटमुज्वलमातपत्रं

द्वौचामरे च महतीं वसुधां दधाति ॥ ५ ॥

कल्य़ाणवृष्टिभिरिवामृतपूरिताभिः

लक्ष्मी स्वयंवरणमङ्गलदीपकाभिः ।

सेवाभिरम्ब तवपादसरोजमूले

नाकारिकिम्मनसि भक्तिमतां जनानाम् ॥ ६ ॥

शिवशक्तिः कामः क्षितिरथरविः शान्त किरणः

स्मरो हंसः शक्रस्तदनु च परामारहरयः ।

अमी हृल्लेखाभिस्ति सृभिरवसानेषु घटिता

भजन्ते वर्णास्ते तवजननि नामवयवताम् ॥ ७ ॥

कदाकाले मातः कथयकलिता लक्तकरसं

पिबेयं विद्यार्धी तव चरण निर्णेजनजलं ।

प्रकृत्या मूकानामपि च कविता कारणतया

सदाधत्ते वाणी मुखकमल ताम्बूल रसताम् ॥ ८ ॥

sri tripura sundari stotram