Skip to main content
पडताळणी प्रलंबित

श्री दीपलक्ष्मी स्तवम्

अन्तर्गृहे हेमसुवेदिकायां

सम्मार्जनालेपनकर्म कृत्वा ।

विधानधूपातुल पञ्चवर्णं

चूर्णप्रयुक्ताद्भुत रङ्गवल्याम् ॥ १ ॥

अगाध सम्पूर्ण सरस्समाने

गोसर्पिषापूरित मध्यदेशे ।

मृणालतन्तुकृत वर्तियुक्ते

पुष्पावतंसे तिलकाभिरामे ॥ २ ॥

परिष्कृत स्थापित रत्नदीपे

ज्योतिर्मयीं प्रज्ज्वलयामि देवीम् ।

नमाम्यहं मत्कुलवृद्धिदात्रीं

सौदादि सर्वाङ्गण शोभमानाम् ॥ ३ ॥

भो दीपलक्ष्मि प्रथितं यशो मे

प्रदेहि माङ्गल्यममोघशीले ।

भर्तृप्रियां धर्मविशिष्ट शीलां

कुरुष्व कल्याण्यनुकम्पया माम् ॥ ४ ॥

यान्तर्बहिश्चापि तमोऽपहन्त्री

सन्ध्यामुखाराधित पादपद्मा ।

त्रयीसमुद्घोषित वैभवा सा

ह्यनन्यकामे हृदये विभातु ॥ ५ ॥

भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः ।

आरोग्यं देहि पुत्रांश्च अवैधव्यं प्रयच्छ मे ॥ ६ ॥

सन्ध्यादीपस्तवमिदं नित्यं नारी पठेत्तु या ।

सर्वसौभाग्ययुक्ता स्याल्लक्ष्म्यनुग्रहतः सदा ॥ ७ ॥

शरीरारोग्यमैश्वर्यं अरिपक्षक्षयः सुखम् ।

देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ ८ ॥

इति श्री दीपलक्ष्मी स्तवम् ।

deepa lakshmi stavam