Skip to main content
पडताळणी प्रलंबित

श्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्)

सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं

गृहीतपाशकाङ्कुशं वरप्रदाऽभयप्रदम् ।

चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं

प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १ ॥

किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं

प्रचण्डरत्नकङ्कणं प्रशोभिताङ्घ्रियष्टिकम् ।

प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं

सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २ ॥

सुवर्णदण्डमण्डितप्रचण्डचारुचामरं

गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् ।

कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं

षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३ ॥

विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं

गिरीशदर्शनेच्छया समर्पितं पराशया ।

निरन्तरं सुरासुरैः सपुत्रवामलोचनैः

महामखेष्टमिष्टकर्मसु भजामि तुन्दिलम् ॥ ४ ॥

मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं

प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् ।

अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं

नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥ ५ ॥

दारिद्र्यविद्रावणमाशु कामदं

स्तोत्रं पठेदेतदजस्रमादरात् ।

पुत्रीकलत्रस्वजनेषु मैत्री

पुमान्मवेदेकवरप्रसादात् ॥ ६ ॥

इति श्रीमच्छङ्कराचार्यविरचितं श्री गणपति स्तोत्रम् ।

sri ganesha stotram 3 daridrya dahanam