Skip to main content
पडताळणी प्रलंबित

श्री शिव स्तोत्रम् (कल्कि कृतम्)

गौरीनाथं विश्वनाथं शरण्यं

भूतावासं वासुकीकण्ठभूषम् ।

त्र्यक्षं पञ्चास्यादिदेवं पुराणं

वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥ १ ॥

योगाधीशं कामनाशं करालं

गङ्गासङ्गक्लिन्नमूर्धानमीशम् ।

जटाजूटाटोपरिक्षिप्तभावं

महाकालं चन्द्रफालं नमामि ॥ २ ॥

श्मशानस्थं भूतवेतालसङ्गं

नानाशस्त्रैः खड्गशूलादिभिश्च ।

व्यग्रात्युग्रा बाहवो लोकनाशे

यस्य क्रोधोद्भूतलोकेऽस्तमेति ॥ ३ ॥

यो भूतादिः पञ्चभूतैः सिसृक्षु-

स्तन्मात्रात्मा कालकर्मस्वभावैः ।

प्रहृत्येदं प्राप्य जीवत्वमीशो

ब्रह्मानन्दे रमते तं नमामि ॥ ४ ॥

स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा

लोकान्साधून् धर्मसेतून्बिभर्षि ।

ब्रह्माद्यंशे योऽभिमानी गुणात्मा

शब्दाद्यङ्गैस्तं परेशं नमामि ॥ ५ ॥

यस्याज्ञया वायवो वाति लोके

ज्वलत्यग्निः सविता याति तप्यन् ।

शीतांशुः खे तारका सङ्ग्रहश्च

प्रवर्तन्ते तं परेशं प्रपद्ये ॥ ६ ॥

यस्य श्वासात्सर्वधात्री धरित्री

देवो वर्षत्यम्बुकालः प्रमाता ।

मेरोर्मध्ये भूवनानां च भर्ता

तमीशानं विश्वरूपं नमामि ॥ ७ ॥

इति श्रीकल्किपुराणे कल्किकृत शिवस्तोत्रम् ।

kalki krita shiva stotram