Skip to main content
पडताळणी प्रलंबित

श्री भुवनेश्वरी हृदयम्

श्रीदेव्युवाच ।

भगवन् ब्रूहि तत् स्तोत्रं सर्वकामप्रसाधनं ।

यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥ १ ॥

यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि ।

तदिदं कथय ब्रह्मन् विमलं यन्महीतले ॥ २ ॥

ईश्वर उवाच ।

शृणु देवि प्रवक्ष्यामि सर्वकामप्रसाधनं ।

हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशोदयम् ॥ ३ ॥

ओं अस्य श्रीभुवनेश्ववरीहृदयस्तोत्रमन्त्रस्य शक्तिः ऋषिः – गायत्री छन्दः – श्रीभुवनेश्वरी देवता – हकारो बीजं – ईकारश्शक्तिः – रेफः कीलकं – सकल मनोवाञ्छितसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः ॥

ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।

ओं श्रीं तर्जनीभ्यां नमः ।

ओं ऐं मध्यमाभ्यां नमः ।

ओं ह्रीं अनामिकाभ्यां नमः ।

ओं श्रीं कनिष्ठिकाभ्यां नमः ।

ओं ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ॥

ओं ह्रीं हृदयाय नमः ।

ओं श्रीं शिरसे स्वाहा ।

ओं ऐं शिखायै वषट् ।

ओं ह्रीं कवचाय हुं ।

ओं श्रीं नेत्रत्रयाय वौषट् ।

ओं ऐं अस्त्राय फट् ।

ध्यानम् ॥

ध्यायेद्ब्रह्मादिकानां कृतजनिजननीं योगिनीं योगयोनिं

देवानां जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीं ।

शङ्खं चक्रं च बाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातौ

मायामाद्यां विशिष्टां भव भव भुवनां भूभवा भारभूमिम् ॥ ४ ॥

यदाज्ञया यो जगदाद्यशेषं

सृजत्यजः श्रीपतिरौरसं वा ।

बिभर्ति संहन्ति भवस्तदन्ते

भजामहे श्रीभुवनेश्वरीं ताम् ॥ ५ ॥

जगज्जनानन्दकरीं जयाख्यां

यशस्विनीं यन्त्रसुयज्ञयोनिम् ।

जितामितामित्रकृतप्रपञ्चां

भजामहे श्रीभुवनेश्वरीं ताम् ॥ ६ ॥

हरौ प्रसुप्ते भुवनत्रयान्ते-

प्यनारतन्नाभिजपद्मजन्मा ।

विधिस्ततोऽन्धे विदधार यत्पदं

भजामहे श्रीभुवनेश्वरीं ताम् ॥ ७ ॥

न विद्यते क्वापि तु जन्म यस्या

न वा स्थितिः सान्ततिकीह यस्याः ।

न वा निरोधेऽखिलकर्म यस्या

भजामहे श्रीभुवनेश्वरीं ताम् ॥ ८ ॥

कटाक्षमोक्षाचरणोग्रवित्ता

निवेशितार्णा करुणार्द्रचित्ता ।

सुभक्तयेराति समीप्सितं या

भजामहे श्रीभुवनेश्वरीं ताम् ॥ ९ ॥

यतो जगज्जन्म बभूव योने-

स्तदेव मध्ये प्रतिपाति यां वा ।

तदत्ति यान्तेऽखिलमुग्रकालि

भजामहे श्रीभुवनेश्वरीं ताम् ॥ १० ॥

सुषुप्तिकाले जनमध्ययन्त्या

यया जनः स्वप्नमवैति किञ्चित् ।

प्रबुध्यते जाग्रति जीव एष

भजामहे श्रीभुवनेश्वरीं ताम् ॥ ११ ॥

दयास्फुरत्कोरकटाक्षलाभा-

न्नकेत्र यस्याः प्रभवन्ति सिद्धाः ।

कवित्वमीशित्वमपि स्वतन्त्रा

भजामहे श्रीभुवनेश्वरीं ताम् ॥ १२ ॥

लसन्मुखाम्भोरुहमुत्स्फुरन्तं

हृदि प्रणिध्याय दिशि स्फुरन्तः ।

यस्याः कृपार्द्रं प्रविकासयन्ति

भजामहे श्रीभुवनेश्वरीं ताम् ॥ १३ ॥

यदानुरागानुगतालिचित्रा-

श्चिरन्तनप्रेमपरिप्लुताङ्गाः ।

सुनिर्भयास्सन्ति प्रमुद्य यस्याः

भजामहे श्रीभुवनेश्वरीं ताम् ॥ १४ ॥

हरिर्विरञ्चिर्हर ईशितारः

पुरोऽवतिष्ठन्ति परंनताङ्गाः ।

यस्यास्समिच्छन्ति सदानुकूल्यं

भजामहे श्रीभुवनेश्वरीं ताम् ॥ १५ ॥

मनुं यदीयं हरमग्निसंस्थं

ततश्च वामश्रुतिचन्द्रसक्तम् ।

जपन्ति ये स्युस्सुरवन्दितास्ते

भजामहे श्रीभुवनेश्वरीं ताम् ॥ १६ ॥

प्रसीदतु प्रेमरसार्द्रचित्ता

सदा हि सा श्रीभुवनेश्वरी मे ।

कृपाकटाक्षेण कुबेरकल्पा

भवन्ति यस्याः पदभक्तिभाजः ॥ १७ ॥

मुदा सुपाठ्यं भुवनेश्वरीयं

सदा सतां स्तोत्रमिदं सुसेव्यम् ।

सुखप्रदं स्यात्कलिकल्मषघ्नं

सुशृण्वतां सम्पठतां प्रशस्यम् ॥ १८ ॥

एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः ।

भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥ १९ ॥

ददाति धनमायुष्यं पुण्यं पुण्यमतिं तथा ।

नैष्ठिकीं देवभक्तिं च गुरुभक्तिं विशेषतः ॥ २० ॥

पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः ।

पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥ २१ ॥

यत्रकुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् ।

सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥ २२ ॥

इति नीलसरस्वतीतन्त्रे श्री भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे

श्रीभुवनेश्वरी हृदयस्तोत्रं सम्पूर्णम् ॥

sri bhuvaneshwari hrudayam