Skip to main content
पडताळणी प्रलंबित

श्री स्कन्द स्तोत्रम् (महाभारते)

मार्कण्डेय उवाच ।

आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः ।

मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ १ ॥

कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः ।

शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ २ ॥

अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ।

दीप्तशक्तिः प्रशान्तात्मा भद्रकुक्कुटमोहनः ॥ ३ ॥

षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः ।

कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ ४ ॥

प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ।

सुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥ ५ ॥

खचारी ब्रह्मचारी च शूरः शरवणोद्भवः ।

विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा ।

वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु ॥ ६ ॥

नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् ।

स्वर्गं कीर्तिं धनं चैव स लभेन्नात्र संशयः ॥ ७ ॥

स्तोष्यामि देवैरृषिभिश्च जुष्टं

शक्त्या गुहं नामभिरप्रमेयम् ।

षडाननं शक्तिधरं सुवीरं

निबोध चैतानि कुरुप्रवीर ॥ ८ ॥

ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच्च

ब्रह्मेशयो ब्रह्मवतां वरिष्ठः ।

ब्रह्मप्रियो ब्राह्मणसर्वमन्त्री त्वं

ब्रह्मणां ब्राह्मणानां च नेता ॥ ९ ॥

स्वाहा स्वधा त्वं परमं पवित्रं

मन्त्रस्तुतस्त्वं प्रथितः षडर्चिः ।

संवत्सरस्त्वमृतवश्च षड्वै

मासार्धमासाश्च दिनं दिशश्च ॥ १० ॥

त्वं पुष्कराक्षस्त्वरविन्दवक्त्रः

सहस्रचक्षोऽसि सहस्रबाहुः ।

त्वं लोकपालः परमं हविश्च

त्वं भावनः सर्वसुरासुराणाम् ॥ ११ ॥

त्वमेव सेनाधिपतिः प्रचण्डः

प्रभुर्विभुश्चाप्यथ शक्रजेता ।

सहस्रभूस्त्वं धरणी त्वमेव

सहस्रतुष्टिश्च सहस्रभुक्च ॥ १२ ॥

सहस्रशीर्षस्त्वमनन्तरूपः

सहस्रपात्त्वं दशशक्तिधारी ।

गङ्गासुतस्त्वं स्वमतेन देव

स्वाहामहीकृत्तिकानां तथैव ॥ १३ ॥

त्वं क्रीडसे षण्मुख कुक्कुटेन

यथेष्टनानाविधकामरूपी ।

दीक्षाऽसि सोमो मरुतः सदैव

धर्मोऽसि वायुरचलेन्द्र इन्द्रः ॥ १४ ॥

सनातनानामपि शाश्वतस्त्वं

प्रभुः प्रभूणामपि चोग्रधन्वा ।

ऋतस्य कर्ता दितिजान्तकस्त्वं

जेता रिपूणां प्रवरः सुराणाम् ॥ १५ ॥

सूक्ष्मं तपस्तत्परमं त्वमेव

परावरज्ञोऽसि परावरस्त्वम् ।

धर्मस्य कामस्य परस्य चैव

त्वत्तेजसा कृत्स्नमिदं महात्मन् ॥ १६ ॥

व्याप्तं जगत्सर्वसुरप्रवीर

शक्त्या मया संस्तुत लोकनाथ ।

नमोऽस्तु ते द्वादशनेत्रबाहो

अतः परं वेद्मि गतिं न तेऽहम् ॥ १७ ॥

स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः ।

श्रावयेद्ब्राह्मणेभ्यो यः शृणुयाद्वा द्विजेरितम् ॥ १८ ॥

धनमायुर्यशो दीप्तं पुत्रान् शत्रुजयं तथा ।

स पुष्टितुष्टी सम्प्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ १९ ॥

इति श्रीमन्महाभारते अरण्यपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्याये स्कन्द स्तोत्रम् ।

sri skanda stotram mahabharatam