Skip to main content
पडताळणी प्रलंबित

मातृकावर्ण स्तोत्रम्

गणेश ग्रह नक्षत्र योगिनी राशि रूपिणीम् ।

देवीं मन्त्रमयीं नौमि मातृकापीठ रूपिणीम् ॥ १ ॥

प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।

कालहल्लोहलोल्लोल कलनाशमकारिणीम् ॥ २ ॥

यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः ।

रवितार्क्ष्येन्दु कन्दर्प शङ्करानल विष्णुभिः ॥ ३ ॥

यदक्षर शशिज्योत्स्नामण्डितं भुवनत्रयम् ।

वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ ४ ॥

यदक्षर महासूत्र प्रोतमेतज्जगत्रयम् ।

ब्रह्माण्डादि कटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ ५ ॥

यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ।

ब्रह्माण्डादि कटाहान्तं जगदद्यापि दृश्यते ॥ ६ ॥

अकचादिटतोन्नद्धपयशाक्षर वर्गिणीम् ।

ज्येष्ठाङ्ग बाहुपादाग्र मध्यस्वान्त निवासिनीम् ॥ ७ ॥

तामीकाराक्षरोद्धारां सारात्सारां परात्पराम् ।

प्रणमामि महादेवीं परमानन्द रूपिणीम् ॥ ८ ॥

अद्यापि यस्या जानन्ति न मनागपि देवताः ।

केयं कस्मात् क्व केनेति सरूपारूप भावनाम् ॥ ९ ॥

वन्दे तामहमक्षय्यामकाराक्षर रूपिणीम् ।

देवीं कुलकलोल्लास प्रोल्लसन्तीं परां शिवाम् ॥ १० ॥

वर्गानुक्रमयोगेन यस्यां मात्राष्टकं स्थितम् ।

वन्दे तामष्टवर्गोत्थ महासिद्ध्यष्टकेश्वरीम् ॥ ११ ॥

कामपूर्णजकाराख्य श्रीपीठान्तर्निवासिनीम् ।

चतुराज्ञा कोशभूतां नौमि श्रीत्रिपुरामहम् ॥ १२ ॥

इति द्वादशभिः श्लोकैः स्तवनं सर्वसिद्धिकृत् ।

देव्यास्त्वखण्डरूपायाः स्तवनं तव तद्यतः ॥ १३ ॥

भूमौ स्खलित पादानां भूमिरेवावलम्बनम् ।

त्वयि जातापराधानां त्वमेव शरणं शिवे ॥ १४ ॥

इति मातृकावर्ण स्तोत्रम् ।

matrika varna stotram