Skip to main content
पडताळणी प्रलंबित

श्री शिव स्तुतिः

स्फुटं स्फटिकसप्रभं स्फुटितहारकश्रीजटं

शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् ।

तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम-

त्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥

त्रिलोचन विलोचने लसति ते ललामायिते

स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् ।

स्वभक्तिलतया वशीकृतपती सतीयं सती

स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २ ॥

महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवा-

नघोररिपुघोर तेऽनवम वामदेवाञ्जलिः ।

नमस्सपदि जात ते त्वमिति पञ्चरूपोचित-

प्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय ॥ ३ ॥

रसाघनरसानलानिलवियद्विवस्वद्विधु-

प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् ।

प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो

वपूंषि गुणभूषितेहमहमात्मनोऽहं भिदे ॥ ४ ॥

विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं

पदं निगमवेदिनो जगति वामदेवादयः ।

कथञ्चिदुपशिक्षिता भगवतैव संविद्रते

वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५ ॥

कठोरितकुठारया ललितशूलया वाहया

रणड्डमरुणा स्फुरद्धरिणया सखट्वाङ्गया ।

चलाभिरचलाभिरप्यगणिताभिरुन्मृत्यत-

श्चतुर्दश जगन्ति ते जयजयेत्ययुर्विस्मयम् ॥ ६ ॥

पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं

पराक्रमपरम्परा अपि परा न ते विस्मयः ।

अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वल-

ज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥

सहस्रनयनो गुहस्सहसहस्ररश्मिर्विधुः

बृहस्पतिरुताप्पतिस्ससुरसिद्धविद्याधराः ।

भवत्पदपरायणाश्श्रियमिमां ययुः प्रार्थितां

भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभाम् ॥ ८ ॥

तव प्रियतमादतिप्रियतमं सदैवान्तरं

पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् ।

विबुद्ध्य लघुबुद्धयस्स्वपरपक्षलक्ष्यायितं

पठन्ति हि लुठन्ति ते शठहृदश्शुचा शुण्ठिताः ॥ ९ ॥

निवासनिलयाचिता तव शिरस्ततिर्मालिका

कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् ।

तथापि भवतः पदं शिवशिवेत्यदो जल्पता-

मकिञ्चन न किञ्चन वृजिनमस्ति भस्मी भवेत् ॥ १० ॥

त्वमेव किल कामधुक्सकलकाममापूरयन्

सदा त्रिनयनो भवान्वहसि चात्रिनेत्रोद्भवम् ।

विषं विषधरान्दधत्पिबसि तेन चानन्दवा-

न्निरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११ ॥

नमः शिवशिवा शिवाशिव शिवार्थ कृन्ताशिवं

नमो हरहरा हराहर हरान्तरीं मे दृशम् ।

नमो भवभवा भवप्रभवभूतये मे भवा-

न्नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२ ॥

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ

शिवस्य करुणाङ्कुरात्प्रतिकृतात्मदा सोचिता ।

इति प्रथितमानसो व्यथित नाम नारायणः

शिवस्तुतिमिमां शिवां लिकुचिसूरिसूनुस्सुधीः ॥ १३ ॥

इति श्रीलिकुचिसूरिसूनु नारायणाचार्यविरचिता श्री शिवस्तुतिः ।

sri shiva stuti