Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी स्तोत्रम् – १

अस्य श्रीबगलामुखि स्तोत्रस्य नारद ऋषिः श्रीबगलामुखि देवता त्रिष्टुप् छन्दः मम सन्निहितानां विरोधिनां दुष्टानां वाङ्मुखपदबुद्धीनां स्तम्भनार्थे श्री महामाया बगलामुखी वरप्रसादसिद्ध्यर्थं स्तोत्रपाठे विनियोगः ॥

ध्यानम् –

सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं

हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ।

हस्तैर्मुद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषणै-

-र्व्याप्ताङ्गी बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥

स्तोत्रं –

मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां

सिंहासनोपरिगतां परिपीतवर्णाम् ।

पीताम्बराभरणमाल्यविभूषिताङ्गीं

देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥ १ ॥

जिह्वाग्रमादाय करेण देवीं

वामेन शत्रून् परिपीडयन्तीम् ।

गदाभिघातेन च दक्षिणेन

पीताम्बराढ्यां द्विभुजां भजामि ॥ २ ॥

चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां

लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ।

गदाहतविपक्षकां कलितलोलजिह्वां चलां

स्मरामि बगलामुखीं विमुखवाङ्मनः स्तम्भिनीम् ॥ ३ ॥

पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डपे

सत्सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।

स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमा-

-मित्थं ध्यायति यान्ति तस्य विलयं सद्योऽथ सर्वापदः ॥ ४ ॥

देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीन्

भक्त्या वामकरे निधाय च जपन् मन्त्रं मनोज्ञाक्षरम् ।

पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत् पार्थिवं

तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत् क्षणात् ॥ ५ ॥

वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति

क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।

गर्वी खर्वति सर्वविच्च जडति त्वद्यन्त्रणा यन्त्रितः

श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ ६ ॥

मन्त्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते

यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।

मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे

त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद्वादिनाम् ॥ ७ ॥

दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं

भूभृद्भीशमनं चलन्मृगदृशां चेतः समाकर्षणम् ।

सौभाग्यैकनिकेतनं समदृशां कारुण्यपूर्णामृतं

मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ ८ ॥

मातर्भञ्जय मद्विपक्षवदनं जिह्वां च सङ्कीलय

ब्राह्मीं मुद्रय नाशयाशुधिषणामुग्रां गतिं स्तम्भय ।

शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे

विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥ ९ ॥

मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये

श्रीविद्ये समये महेशि बगले कामेशि रामे रमे ।

मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे

दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥ १० ॥

फलश्रुतिः –

संरम्भे चौरसङ्घे प्रहरणसमये बन्धने वारिमध्ये

विद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।

वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा

गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥ ११ ॥

नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादरा-

-द्धृत्वा मन्त्रमिदं तथैव समरे बाहौ करे वा गले ।

राजानोऽप्यरयो मदान्धकरिणः सर्पा मृगेन्द्रादिका-

-स्ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिराः सिद्धयः ॥ १२ ॥

त्वं विद्या परमा त्रिलोकजननी विघ्नौघसञ्छेदिनी

योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी ।

दुष्टोच्चाटनकारिणी जनमनः सम्मोहसन्दायिनी

जिह्वाकीलनभैरवी विजयते ब्रह्मादि मन्त्रो यथा ॥ १३ ॥

विद्या लक्ष्मीः सर्वसौभाग्यमायुः

पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।

मानं भोगो वश्यमारोग्यसौख्यं

प्राप्तं तत्तद्भूतलेऽस्मिन् नरेण ॥ १४ ॥

यत्कृतं जपसन्नाहं गदितं परमेश्वरि ।

दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥ १५ ॥

ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।

गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥ १६ ॥

पीताम्बरां च द्विभुजां त्रिनेत्रां गात्रकोज्ज्वलाम् ।

शिलामुद्गरहस्तां च स्मरेत्तां बगलामुखीम् ॥ १७ ॥

इति रुद्रयामले श्री बगलामुखी स्तोत्रम् ॥

sri bagalamukhi stotram 1