Skip to main content
पडताळणी प्रलंबित

पशुपत्यष्टकम्

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।

पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

पशुपतिं द्युपतिं धरणीपतिं

भुजगलोकपतिं च सतीपतिम् ।

प्रणत भक्तजनार्तिहरं परं

भजत रे मनुजा गिरिजापतिम् ॥ १ ॥

न जनको जननी न च सोदरो

न तनयो न च भूरिबलं कुलम् ।

अवति कोऽपि न कालवशं गतं

भजत रे मनुजा गिरिजापतिम् ॥ २ ॥

मुरजडिण्डिमवाद्यविलक्षणं

मधुरपञ्चमनादविशारदम् ।

प्रमथभूतगणैरपि सेवितं

भजत रे मनुजा गिरिजापतिम् ॥ ३ ॥

शरणदं सुखदं शरणान्वितं

शिव शिवेति शिवेति नतं नृणाम् ।

अभयदं करुणावरुणालयं

भजत रे मनुजा गिरिजापतिम् ॥ ४ ॥

नरशिरोरचितं मणिकुण्डलं

भुजगहारमुदं वृषभध्वजम् ।

चितिरजोधवलीकृतविग्रहं

भजत रे मनुजा गिरिजापतिम् ॥ ५ ॥

मखविनाशकरं शशिशेखरं

सततमध्वरभाजि फलप्रदम् ।

प्रलयदग्धसुरासुरमानवं

भजत रे मनुजा गिरिजापतिम् ॥ ६ ॥

मदमपास्य चिरं हृदि संस्थितं

मरणजन्मजराभयपीडितम् ।

जगदुदीक्ष्य समीपभयाकुलं

भजत रे मनुजा गिरिजापतिम् ॥ ७ ॥

हरिविरञ्चिसुराधिपपूजितं

यमजनेशधनेशनमस्कृतम् ।

त्रिनयनं भूवनत्रितयाधिपं

भजत रे मनुजा गिरिजापतिम् ॥ ८ ॥

पशुपतेरिदमष्टकमद्भुतं

विरचितं पृथिवीपतिसूरिणा ।

पठति संशृणुते मनुजः सदा

शिवपुरीं वसते लभते मुदम् ॥ ९ ॥

इति श्रीपृथिवीपतिसूरिविरचितं श्रीपशुपत्यष्टकम् ।

sri pashupathi ashtakam in hindi