Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा पञ्चरत्नम्

ते ध्यानयोगानुगता अपश्यन्

त्वामेव देवीं स्वगुणैर्निगूढाम् ।

त्वमेव शक्तिः परमेश्वरस्य

मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ १ ॥

देवात्मशक्तिः श्रुतिवाक्यगीता

महर्षिलोकस्य पुरः प्रसन्ना ।

गुहा परं व्योम सतः प्रतिष्ठा

मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ २ ॥

परास्य शक्तिः विविधैव श्रूयसे

श्वेताश्ववाक्योदितदेवि दुर्गे ।

स्वाभाविकी ज्ञानबलक्रिया ते

मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ३ ॥

देवात्मशब्देन शिवात्मभूता

यत्कूर्मवायव्यवचोविवृत्या

त्वं पाशविच्छेदकरी प्रसिद्धा

मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ४ ॥

त्वं ब्रह्मपुच्छा विविधा मयूरी

ब्रह्मप्रतिष्ठास्युपदिष्टगीता ।

ज्ञानस्वरूपात्मतयाखिलानां

मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ५ ॥

इति परमपूज्य श्रीचन्द्रशेखरेन्द्रसरस्वती स्वामि कृतं दुर्गा पञ्चरत्नं सम्पूर्णम् ।

sri durga pancharatnam