Skip to main content
पडताळणी प्रलंबित

श्री लक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ३

ब्रह्मज्ञा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी ।

सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १ ॥

सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा ।

संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २ ॥

कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी ।

हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३ ॥

सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी ।

महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४ ॥

कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता ।

कौमुदी शीतलमनाः कौसल्यासुतभामिनी ॥ ५ ॥

कासारनाभिः का ता याऽऽप्येषेयत्ताविवर्जिता । [सा]

अन्तिकस्थाऽतिदूरस्था हृदयस्थाऽम्बुजस्थिता ॥ ६ ॥

मुनिचित्तस्थिता मौनिगम्या मान्धातृपूजिता ।

मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुका ॥ ७ ॥

महीस्थिता च मध्यस्था द्युस्थिताऽधःस्थितोर्ध्वगा ।

भूतिर्विभूतिः सुरभिः सुरसिद्धार्तिहारिणी ॥ ८ ॥

अतिभोगाऽतिदानाऽतिरूपाऽतिकरुणाऽतिभाः ।

विज्वरा वियदाभोगा वितन्द्रा विरहासहा ॥ ९ ॥

शूर्पकारातिजननी शून्यदोषा शुचिप्रिया ।

निःस्पृहा सस्पृहा नीलासपत्नी निधिदायिनी ॥ १० ॥

कुम्भस्तनी कुन्दरदा कुङ्कुमालेपिता कुजा ।

शास्त्रज्ञा शास्त्रजननी शास्त्रज्ञेया शरीरगा ॥ ११ ॥

सत्यभाः सत्यसङ्कल्पा सत्यकामा सरोजिनी ।

चन्द्रप्रिया चन्द्रगता चन्द्रा चन्द्रसहोदरी ॥ १२ ॥

औदर्यौपयिकी प्रीता गीता चौता गिरिस्थिता ।

अनन्विताऽप्यमूलार्तिध्वान्तपुञ्जरविप्रभा ॥ १३ ॥

मङ्गला मङ्गलपरा मृग्या मङ्गलदेवता ।

कोमला च महालक्ष्मीः नाम्नामष्टोत्तरं शतम् ॥ १४ ॥

सर्वपापक्षयकरं सर्वशत्रुविनाशनम् ।

दारिद्र्यध्वंसनकरं पराभवनिवर्तकम् ॥ १५ ॥

शतसंवत्सरं विंशत्युत्तरं जीवितं भवेत् ।

मङ्गलानि तनोत्येषा श्रीविद्यामङ्गला शुभा ॥ १६ ॥

इति नारदीयोपपुराणान्तर्गतं श्री लक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ।

sri lakshmi ashtottara shatanama stotram 3