Skip to main content
पडताळणी प्रलंबित

श्री चिदम्बर पञ्चचामर स्तोत्रम्

कदम्बकाननप्रियं चिदम्बया विहारिणं

मदेभकुम्भगुम्फितस्वडिम्भलालनोत्सुकम् ।

सदम्भकामखण्डनं सदम्बुवाहिनीधरं

हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ १ ॥

समस्तभक्तपोषणस्वहस्तबद्धकङ्कणं

प्रशस्तकीर्तिवैभवं निरस्तसज्जनापदम् ।

करस्थमुक्तिसाधनं शिरःस्थचन्द्रमण्डनं

हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ २ ॥

जटाकिरीटमण्डितं निटाललोचनान्वितं

पटीकृताष्टदिक्तटं पटीरपङ्कलेपनम् ।

नटौघपूर्वभाविनं कुठारपाशधारिणं

हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ३ ॥

कुरङ्गशाबशोभितं चिरं गजाननार्चितं

पुराङ्गनाविचारदं वराङ्गरागरञ्जितम् ।

खराङ्गजातनाशकं तुरङ्गमीकृतागमं

हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ४ ॥

अमन्दभाग्यभाजनं सुमन्दहाससन्मुखं

सुमन्दमन्दगामिनीगिरीन्द्रकन्यकाधवम् ।

शमं दमं दयालुताममन्दयन्तमात्मनो

हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ५ ॥

करीन्द्रचर्मवाससं गिरीन्द्रचापधारिणं

सुरेन्द्रमुख्यपूजितं खगेन्द्रवाहनप्रियम् ।

अहीन्द्रभूषणोज्ज्वलं नगेन्द्रजाविलासिनं

हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ६ ॥

मलापहारिणीतटे सदा विलासकारिणं

बलारिशापभञ्जनं ललामरूपलोचनम् ।

लसत्फणीन्द्रहारिणं ज्वलत्त्रिशूलधारिणं

हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ७ ॥

शशाङ्कभानुवीतिहोत्रराजितत्रिलोचनं

विशालवक्षसं सुदीर्घबाहुदण्डमण्डितम् ।

दिगम्बरोल्लसद्वपुर्धरं धरारथान्वितं

हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ८ ॥

सदन्तरङ्गसज्जनौघपापसङ्घनाशने

मदान्धयुक्तदुर्जनालिशिक्षणे विचक्षणः ।

चिदम्बराख्यसद्गुरुस्वरूपमेत्य भूतले

सदाशिवो विराजते सदा मुदान्वितो हरः ॥ ९ ॥

चिदम्बराख्यसद्गुरोरिदं सदा विलासिनं

मुदा लिखन्ति ये सकृत् सदोपमानमष्टकम् ।

सदा वसेत्तदालये हरिप्रिया तदानने

विधिप्रिया च निश्चला जगद्गुरोरनुग्रहात् ॥ १० ॥

इति श्री चिदम्बर पञ्चचामर स्तोत्रम् ।

sri chidambara panchachamara stotram