Skip to main content
पडताळणी प्रलंबित

श्री वाणी प्रश्नमाला स्तवः

किं नाहं पुत्रस्तव

मातुः सचराचरस्य जगतोऽस्य ।

किं मां दूरीकुरुषे

देवि गिरां ब्रूहि कारणं तत्र ॥ १ ॥

किं चाहुराचार्यपादा-

-स्त्वद्भक्ता मद्गुरूत्तमाः पूर्वम् ।

औरसतनयं मां तव

कस्माद्दूरीकरोषि वद वाणि ॥ २ ॥

आनीय दूरतो मां

मातस्त्वत्पादसविधमतिकृपया ।

परिपाल्य च सुचिरं मां

कस्माद्दूरीकरोषि वद वाणि ॥ ३ ॥

अतिपरिचयादवज्ञा

प्रभवेत्पुत्रेषु किं सवित्रीणाम् ।

न हि सा क्वचिदपि दृष्टा

कस्माद्दूरीकरोषि वद वाणि ॥ ४ ॥

कादाचित्कनमस्कृति-

-कर्तॄणामप्यभीष्टदे तरसा ।

नाहं सकृदपि नन्ता

कस्माद्दूरीकरोषि वद वाणि ॥ ५ ॥

गुरुरूपेणाबाल्या-

-त्सोढ्वा मन्तूंश्च मत्कृतान्विविधान् ।

परिरक्ष्य करुणया मां

कस्माद्दूरीकरोषि वद वाणि ॥ ६ ॥

जगतां पालनमनिशं

कुर्वन्त्यास्ते भवेत्कियान्भारः ।

अहमम्ब दीनवर्यः

कस्माद्दूरीकरोषि वद वाणि ॥ ७ ॥

पापान्निवार्य सरणौ

विमलायां मे प्रवर्तने तरसा ।

कर्तव्ये सति कृपया

कस्माद्दूरीकरोषि वद वाणि ॥ ८ ॥

यद्यप्यन्यानन्यान्

देवानाराधयामि न त्वं ते ।

सर्वात्मिकेति चपलः

कस्माद्दूरीकरोषि वद वाणि ॥ ९ ॥

यात्राशक्तमिमं मां

गलितशरीरम्रुजा समाक्रान्तम् ।

पात्रमहेतुदयायाः

कस्माद्दूरीकरोषि वद वाणि ॥ १० ॥

तव सद्मनि गुरुसदने

विद्यातीर्थालये च बहुसुखतः ।

खेलां कुर्वन्तं मां

कस्माद्दूरीकरोषि वद वाणि ॥ ११ ॥

त्वत्क्षेत्रनिकटराज-

-न्नरसिंहाख्याचलशृङ्गाग्रे ।

स्वैरविहारकृतं मां

कस्माद्दूरीकरोषि वद वाणि ॥ १२ ॥

त्वत्पादपूततुङ्गा-

-तीरे विजने वने चरन्तं माम् ।

अनुघस्रं मोदभरात्

कस्माद्दूरीकरोषि वद वाणि ॥ १३ ॥

तुङ्गातीरे दिनकर-

-निवेशनिकटस्थले विपुले ।

ध्यायन्तं परतत्त्वं

कस्माद्दूरीकरोषि वद वाणि ॥ १४ ॥

तुङ्गातीरे रघुवर-

-मन्दिरपुरतः सुदीर्घपाषाणे ।

कुतुकाद्विहरन्तं मां

कस्माद्दूरीकरोषि वद वाणि ॥ १५ ॥

जातु च नरसिंहपुरे

तुङ्गातीरे सुसैकते मोदात् ।

विहृतिं कुर्वाणं मां

कस्माद्दूरीकरोषि वद वाणि ॥ १६ ॥

यतिवरकृतात्मविद्या-

-विलासमनिशं पठन्तमतिमोदात् ।

कुहचित्तुङ्गातीरे

कस्माद्दूरीकरोषि वद वाणि ॥ १७ ॥

शङ्करभगवत्पाद-

-प्रणीतचूडामणिं विवेकादिम् ।

शृण्वन्तं नृहरिवने

कस्माद्दूरीकरोषि वद वाणि ॥ १८ ॥

इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचित श्री वाणी प्रश्नमाला स्तुतिः ॥

sri vani prashnamala stava