Skip to main content
पडताळणी प्रलंबित

श्री नारायणी स्तुति

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ १ ॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।

विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ २ ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ३ ॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ४ ॥

शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ५ ॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।

कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥ ६ ॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।

माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥ ७ ॥

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।

कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ ८ ॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।

प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ ९ ॥

गृहीतोग्रमहाचक्रे दम्ष्ट्रोद्धृतवसुन्धरे ।

वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ १० ॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।

त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ ११ ॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।

वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ १२ ॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले ।

घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ १३ ॥

दम्ष्ट्राकरालवदने शिरोमालाविभूषणे ।

चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ १४ ॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।

महारात्रि महामाये नारायणि नमोऽस्तु ते ॥ १५ ॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।

नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥ १६ ॥

narayani stuti