Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तोत्रम् – २

रविरुद्रपितामहविष्णुनुतं

हरिचन्दनकुङ्कुमपङ्कयुतम् ।

मुनिबृन्दगजेन्द्रसमानयुतं

तव नौमि सरस्वति पादयुगम् ॥ १ ॥

शशिशुद्धसुधाहिमधामयुतं

शरदम्बरबिम्बसमानकरम् ।

बहुरत्नमनोहरकान्तियुतं

तव नौमि सरस्वति पादयुगम् ॥ २ ॥

कनकाब्जविभूषितभूतिभवं

भवभावविभाषितभिन्नपदम् ।

प्रभुचित्तसमाहितसाधुपदं

तव नौमि सरस्वति पादयुगम् ॥ ३ ॥

भवसागरमज्जनभीतिनुतं

प्रतिपादितसन्ततिकारमिदम् ।

विमलादिकशुद्धविशुद्धपदं

तव नौमि सरस्वति पादयुगम् ॥ ४ ॥

मतिहीनजनाश्रयपादमिदं

सकलागमभाषितभिन्नपदम् ।

परिपूरितविश्वमनेकभवं

तव नौमि सरस्वति पादयुगम् ॥ ५ ॥

परिपूर्णमनोरथधामनिधिं

परमार्थविचारविवेकविधिम् ।

सुरयोषितसेवितपादतलं

तव नौमि सरस्वति पादयुगम् ॥ ६ ॥

सुरमौलिमणिद्युतिशुभ्रकरं

विषयादिमहाभयवर्णहरम् ।

निजकान्तिविलेपितचन्द्रशिवं

तव नौमि सरस्वति पादयुगम् ॥ ७ ॥

गुणनैककुलस्थितिभीतिपदं

गुणगौरवगर्वितसत्यपदम् ।

कमलोदरकोमलपादतलं

तव नौमि सरस्वति पादयुगम् ॥ ८ ॥

त्रिसन्ध्यं यो जपेन्नित्यं जले वापि स्थले स्थितः ।

पाठमात्राद्भवेत्प्राज्ञो ब्रह्मनिष्ठः पुनः पुनः ॥

इति श्री सरस्वती स्तोत्रम् ॥

sri saraswati stotram 2