Skip to main content
पडताळणी प्रलंबित

श्री भारती भावना स्तोत्रम्

श्रितजनमुखसन्तोषस्य दात्रीं पवित्रां

जगदवनजनित्रीं वेदवनेदान्तत्त्वाम् ।

विभवनवरदां तां वृद्धिदां वाक्यदेवीं

सुमनसहृदिगम्यां भारतीं भावयामि ॥ १ ॥

विधिहरिहरवन्द्यां वेदनादस्वरूपां

ग्रहरसरवशास्त्रज्ञापयित्रीं सुनेत्राम् ।

अमृतमुखसमन्तां व्याप्तलोकां विधात्रीं

सुमनसहृदिगम्यां भारतीं भावयामि ॥ २ ॥

कृतकनकविभूषां नृत्यगानप्रियां तां

शतगुणहिमरश्मीरम्यमुख्याङ्गशोभाम् ।

सकलदुरितनाशां विश्वभावां विभावां

सुमनसहृदिगम्यां भारतीं भावयामि ॥ ३ ॥

समरुचिफलदानां सिद्धिदात्रीं सुरेज्यां

शमदमगुणयुक्तां शान्तिदां शान्तरूपाम् ।

अगणितगुणरूपां ज्ञानविद्यां बुधाद्यां

सुमनसहृदिगम्यां भारतीं भावयामि ॥ ४ ॥

विकटविदितरूपां सत्यभूतां सुधांशां

मणिमकुटविभूषां भुक्तिमुक्तिप्रदात्रीम् ।

मुनिनुतपदपद्मां सिद्धदेश्यां विशालां

सुमनसहृदिगम्यां भारतीं भावयामि ॥ ५ ॥

इति श्री भारती भावना स्तोत्रम् ॥

sri bharati bhavana stotram