Skip to main content
पडताळणी प्रलंबित

श्री वाग्वादिनी सहस्रनाम स्तोत्रम्

ब्रह्मोवाच ।

नन्दिकेश्वर सर्वज्ञ भक्तानुग्रहकारक ।

ऋद्धिसिद्धिप्रदं नॄणां सर्वदोषनिषूदनम् ॥ १ ॥

सर्वसिद्धिकरं पुंसां सर्वकामार्थसाधनम् ।

आधिव्याधिहरं केन केन वा मृत्युनाशनम् ।

वक्तुमर्हसि देवेश नन्दिकेश सुरोत्तम ॥ २ ॥

श्रीनन्दिकेश्वरोवाच ।

शृणु ब्रह्मन् प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।

सर्वसक्तहितार्थाय कथिता कमलासने ॥ ३ ॥ [भक्त]

समस्तकलहध्वंसी लोकस्य लोकवल्लभा ।

जलजाः स्थलजाश्चैव वनजा व्योमजास्तथा ॥ ४ ॥

कृत्रिमा दोषजाश्चापि भ्रान्तभ्रान्तिविनाशनम् ।

अपस्मारग्रहोन्मादजलोन्मत्तपिशाचकाः ॥ ५ ॥

दुःखप्रणाशनं नित्यं सुखं प्रप्राप्यते विधिः । [सम्प्राप्यते]

इदं स्तोत्रं न जानन्ति वाग्देवीस्मरणे यदि ॥ ६ ॥

न तत्सिद्धिमवाप्नोति वर्षकोटिशतैरपि ।

सर्वं सरस्वतीनाम्नां सदाशिवऋषिः स्मृतः ॥ ७ ॥

छन्दोऽनुष्टुप् तथा बीजं वाग्भवं शक्ति कीलकम् ।

रकारं सर्वकामार्थं विनियोगः प्रकीर्तिताः ॥ ८ ॥

अथ ध्यानम् –

शुभ्रां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां

व्याख्यामक्षगुणं सुधाब्जकलशं विद्यां च हस्ताम्बुजैः ।

विभ्राणां कमलासना कुचनतां वाग्देवतां सुस्मितां

वाग्देवीं विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् ॥ [वन्दे या]

अथ स्तोत्रं –

ओं श्रीवाग्वादिनी वाणी वागीश्वरी सरस्वती ।

वाचा वाचामती वाक्या वाग्देवी बालसुन्दरी ॥ १ ॥

वचसा वाचयिष्या च वल्लभा विष्णुवल्लभा ।

बालरूपा सती वृद्धा वनमाली वनेश्वरी ॥ २ ॥

वलिध्वंसप्रिया वेदा वरदा वरवर्धिनी ।

ब्राह्मी सरस्वती विद्या ब्रह्माणुज्ञानगोचरी ॥ ३ ॥ [ब्रह्माण्डज्ञान]

ब्रह्मनाडी ब्रह्मज्ञानी व्रती व्रतप्रिया व्रता ।

ब्रह्मचारी बुद्धिरूपी बुद्धिदा बुद्धिदायका ॥ ४ ॥

बुद्धिः प्रज्ञा बुद्धिमती बुद्धिश्री बुद्धिवर्धिनी ।

वाराही वारुणी व्यक्ता वेणुहस्ता बलीयसी ॥ ५ ॥

वाममार्गरता देवी वामाचाररसप्रिया ।

वामस्था वामरूपा च वर्धिनी वामलोचना ॥ ६ ॥

विश्वव्यापी विश्वरूपा विश्वस्था विश्वमोहिनी ।

विन्ध्यस्था विन्ध्यनिलया विन्दुदा विन्दुवासिनी ॥ ७ ॥

वक्त्रस्था वक्त्ररूपा च विज्ञानज्ञानदायिनी ।

विघ्नहर्त्री विघ्नदात्री विघ्नराजस्य वल्लभा ॥ ८ ॥

वासुदेवप्रिया देवी वेणुदत्तबलप्रदा ।

बलभद्रस्य वरदा बलिराजप्रपूजिता ॥ ९ ॥

वाक्यं वाचमती ब्राह्मी वाग्भवानी विधायिका ।

वायुरूपा च वेगीशा वेगस्था वेगचारिणी ॥ १० ॥

ब्रह्ममूर्तिर्वाङ्मयी च वार्ताज्ञा वाङ्मयेश्वरी ।

बन्धमोक्षप्रदा देवी ब्रह्मनादस्वरूपिणी ॥ ११ ॥

वसुन्धरास्थिता देवी वसुधारस्वरूपिणी ।

वर्गरूपा वेगधात्री वनमालाविभूषणा ॥ १२ ॥

वाग्देवेश्वरकण्ठस्था वेद्या विबुधवन्दिता ।

विद्युत्प्रभा विन्दुमती वाञ्छिता वीरवन्दिता ॥ १३ ॥

वह्निज्वाला वह्निमुखी विश्वव्यापी विशालदा ।

विद्यारूपा च श्रीविद्या विद्याधरप्रपूजिता ॥ १४ ॥

विद्यास्था विद्यया देवी विद्यादेवी विषप्रहा ।

विषघ्नी विषदोषघ्नी वृक्षमूलप्रतिष्ठिता ॥ १५ ॥

वृक्षरूपी च वृक्षेशी वृक्षफलप्रदायका ।

विविधौषधसम्पन्ना विविधोत्पातनाशिनी ॥ १६ ॥

विधिज्ञा विविधाकारा विश्वगर्भा वनेश्वरी ।

विश्वेश्वरी विश्वयोनीर्विश्वमाता विधिप्रिया ॥ १७ ॥

विभूतिरूपा वैभूती वंशी वंशीधरप्रिया ।

विशाललोचनी देवी वित्तदा च वरानना ॥ १८ ॥

वायुमण्डलसंस्था च वह्निमण्डलसंस्थिता ।

गङ्गादेवी च गङ्गा च गुणादात्री गुणात्मिका ॥ १९ ॥

गुणाश्रया गुणवती गुणशीलसमन्विता ।

गर्भप्रदा गर्भदात्री गर्भरक्षाप्रदायिनी ॥ २० ॥

गीरूपा गीष्मती गीता गीतज्ञा गीतवल्लभा ।

गिरिधारिप्रिया देवी गिरिराजसुता सती ॥ २१ ॥

गतिदा गर्भदा गर्भा गणपूज्या गणेश्वरी ।

गम्भीरा गहना गुह्या गन्धर्वगणसेविता ॥ २२ ॥

गुह्येश्वरी गुह्यकाली गुप्तमार्गप्रदायिनी ।

गुरुमूर्तिर्गुरुस्था च गोचरा गोचरप्रदा ॥ २३ ॥

गोपिनी गोपिका गौरी गोपालज्ञानतत्परा ।

गोरूपा गोमतीदेवी गोवर्धनधरप्रिया ॥ २४ ॥

गुणदात्री गुणशीला गुणरूपा गुणेश्वरी ।

गायत्रीरूपा गान्धारी गङ्गाधरप्रिया तथा ॥ २५ ॥

गिरिकन्या गिरिस्था च गूढरूपा गृहे स्थिता ।

गृहे क्लेश विध्वंसिनी गृहे कलहभञ्जनी ॥ २६ ॥

गगनाडी गर्भज्योतिर्गगनाकारशोभिता ।

गमसागमस्वरूपा च गरुडासनवल्लभा ॥ २७ ॥

गन्धरूपा गन्धरूपी गलस्था गलगोचरा ।

गजेन्द्रगामिनीदेवी ग्रहनक्षत्रवन्दिता ॥ २८ ॥

गोपकन्या गोकुलेशी गोपीचन्दनलेपिता ।

दयावती दुःखहन्त्री दुष्टदारिद्र्यनाशिनी ॥ २९ ॥

दिव्यदेहा दिव्यमुखी दिव्यचन्दनलेपिता ।

दिव्यवस्त्रपरीधाना दम्भलोभविवर्जिता ॥ ३० ॥

दाता दामोदरप्रीता दामोदरपरायणा ।

दनुजेन्द्रविनाशी च दानवागणसेविता ॥ ३१ ॥

दुष्कृतघ्नी दूरगामी दुर्मतिदुःखनाशिनी ।

दावाग्निरूपिणीदेवी दशग्रीववरप्रदा ॥ ३२ ॥

दयानदी दयाशीला दानशीला च दर्शिनी ।

दृढदेवी दृढदृष्टी दुग्धप्रापनतत्परा ॥ ३३ ॥

दुग्धवर्णा दुग्धप्रिया दधिदुग्धप्रदायका ।

देवकी देवमाता च देवेशी देवपूजिता ॥ ३४ ॥

देवीमूर्तिर्दयामूर्तिर्दोषहा दोषनाशिनी ।

दोषघ्नी दोषदमनी दोलाचलप्रतिष्ठिता ॥ ३५ ॥

दैत्यहा दैत्यहन्त्री च देवारिगणमर्दिनी ।

दम्भकृद्दम्भनाशी च दाडिमीपुष्पवल्लभा ॥ ३६ ॥

दशना दाडिमाकारा दाडिमीकुसुमप्रभा ।

दासीवरप्रदा दीक्षा दीक्षिता दीक्षितेश्वरी ॥ ३७ ॥

दिलीपराजबलदा दिनरात्रिस्वरूपिणी ।

दिगम्बरी दीप्ततेजा डमरूभुजधारिणी ॥ ३८ ॥

द्रव्यरूपी द्रव्यकरी दशरथवरप्रदा ।

ईश्वरी ईश्वरभार्या इन्द्रियरूपसंस्थिता ॥ ३९ ॥

इन्द्रपूज्या इन्द्रमाता ईप्सित्वफलदायका ।

इन्द्राणी इङ्गितज्ञा च ईशानी ईश्वरप्रिया ॥ ४० ॥

इष्टमूर्ती इहैवस्था इच्छारूपा इहेश्वरी ।

इच्छाशक्ति ईश्वरस्था इल्वदैत्यनिषूदिनी ॥ ४१ ॥

इतिहासादिशास्त्रज्ञा इच्छाचारीस्वरूपिणी ।

ईकाराक्षररूपा च इन्द्रियवरवर्धिनी ॥ ४२ ॥

इन्द्रलोकनिवासिन्यो ईप्सितार्थप्रदायिनी ।

नारी नारायणप्रीता नारसिंही नरेश्वरी ॥ ४३ ॥

नर्मदा नन्दिनीरूपा नर्तकी नगनन्दिनी ।

नारायणप्रिया नित्यं नानाविद्याप्रदायिनी ॥ ४४ ॥

नानाशास्त्रधरीदेवी नानापुष्पसुशोभिता ।

नयनत्रयरूपा च नृत्यनाथस्यवल्लभा ॥ ४५ ॥

नदीरूपा नृत्यरूपा नागरी नगरेश्वरी ।

नानार्थदाता नलिनी नारदादिप्रपूजिता ॥ ४६ ॥

नतारम्भेश्वरीदेवी नीतिज्ञा च निरञ्जनी ।

नित्यसिंहासनस्था च नित्यकल्याणकारिणी ॥ ४७ ॥

नित्यानन्दकरी देवी नित्यसिद्धिप्रदायका ।

नेत्रपद्मदलाकारा नेत्रत्रयस्वरूपिणी ॥ ४८ ॥

नौमीदेवीनाममात्रा नकाराक्षररूपिणी ।

नन्दा निन्द्रा महानिद्रा नूपुरपदशोभिता ॥ ४९ ॥

नाटकी नाटकाध्यक्षा नरानन्दप्रदायिका ।

नानाभरणसन्तुष्टानानारत्नविभूषणा ॥ ५० ॥

नरकनाशिनीदेवी नागान्तकस्थिता प्रिया ।

नीतिविद्याप्रदा देवी न्यायशास्त्रविशारदी ॥ ५१ ॥

नरलोकगतादेवी नरकासुरनाशिनी ।

अनन्तशक्तिरूपा च नैमित्तिकप्रपूजिता ॥ ५२ ॥

नानाशस्त्रधरादेवी नारबिन्दुस्वरूपिणी ।

नक्षत्ररूपा नन्दिता नगस्था नगनन्दिनी ॥ ५३ ॥

सारदा सरितारूपा सत्यभामा सुरेश्वरी ।

सर्वानन्दकरीदेवी सर्वाभरणभूषिता ॥ ५४ ॥

सर्वविद्याधरादेवी सर्वशास्त्रस्वरूपिणी ।

सर्वमङ्गलदात्री च सर्वकल्याणकारिणी ॥ ५५ ॥

सर्वज्ञा सर्वभाग्यं च सर्वसन्तुष्टिदायका ।

सर्वभारधरादेवी सर्वदेशनिवासिनी ॥ ५६ ॥

सर्वदेवप्रियादेवी सर्वदेवप्रपूजिता ।

सर्वदोषहरादेवी सर्वपातकनाशिनी ॥ ५७ ॥

सर्वसंसारसाराणि सर्वसङ्कष्टनाशिनी ।

सर्वकलहविध्वंसी सर्वविद्याधिदेवता ॥ ५८ ॥

सर्वमोहनकारी च सर्वमन्त्रप्रसिद्धिदा ।

सर्वतन्त्रात्मिकादेवी सर्वयन्त्राधिदेवता ॥ ५९ ॥

सर्वमण्डलसंस्था च सर्वमायाविमोहिनी ।

सर्वहृदयवासिन्यो सर्वमात्मस्वरूपिणी ॥ ६० ॥

सर्वकारणकारी च सर्वशान्तस्वरूपिणी ।

सर्वसिद्धिकरस्था च सर्ववाक्यस्वरूपिणी ॥ ६१ ॥

सर्वाधारा निराधारा सर्वाङ्गसुन्दरी सती ।

सर्ववेदमयीदेवी सर्वशब्दस्वरूपिणी ॥ ६२ ॥

सर्वब्रह्माण्डव्याप्ता च सर्वब्रह्माण्डवासिनी ।

सर्वाचाररता साध्वी सर्वबीजस्वरूपिणी ॥ ६३ ॥

सर्वोन्मादविकारघ्नी सर्वकल्मषनाशिनी ।

सर्वदेहगतादेवी सर्वयोगेश्वरी परा ॥ ६४ ॥

सर्वकण्ठस्थिता नित्यं सर्वगर्भासुरक्षका ।

सर्वभावा प्रभावाद्या सर्वलक्ष्मीप्रदायिका ॥ ६५ ॥

सर्वैश्वर्यप्रदा देवी सर्ववायुस्वरूपिणी ।

सुरलोकगता देवी सर्वयोगेश्वरी परा ॥ ६६ ॥

सर्वकण्ठस्थिता नित्यं सुरासुरवरप्रदा ।

सूर्यकोटिप्रतीकाशा सूर्यमण्डलसंस्थिता ॥ ६७ ॥

शून्यमण्डलसंस्था च सात्त्विकी सत्यदा तथा ।

सरिता सरिताश्रेष्ठा सदाचारसुशोभिता ॥ ६८ ॥

साकिनी साम्यरूपा च साध्वी साधुजनाश्रया ।

सिद्धिदा सिद्धिरूपा च सिद्धिः सिद्धिविवर्धिनी ॥ ६९ ॥

श्रियकल्याणदादेवी सर्वमोहाधिदेवता ।

सिद्धेश्वरी च सिद्धात्मा सर्वमेधाविवर्धिनी ॥ ७० ॥

शक्तिरूपा च शक्तेशी श्यामा कष्टनिषूदिनी ।

सर्वभक्षा शङ्खिनी च सरसागतकारिणी ॥ ७१ ॥

सर्वप्रणवरूपा च सर्व अक्षररूपिणी ।

सुखदा सौख्यदा भोगा सर्वविघ्नविदारिणी ॥ ७२ ॥

सन्तापहा सर्वबीजा सावित्री सुरसुन्दरी ।

श्रीरूपा श्रीकरी श्रीश्च शिशिराचलवासिनी ॥ ७३ ॥

शैलपुत्री शैलधात्री शरणागतवल्लभा ।

रत्नेश्वरी रत्नप्रदा रत्नमन्दिरवासिनी ॥ ७४ ॥

रत्नमालाविचित्राङ्गी रत्नसिंहासनस्थिता ।

रसधारा रसरता रसज्ञा रसवल्लभा ॥ ७५ ॥

रसभोक्त्री रसरूपा षड्रसज्ञा रसेश्वरी । [रसषट्‍ज्ञा]

रसेन्द्रभूषणा नित्यं रतिरूपा रतिःप्रदा ॥ ७६ ॥

राज्येश्वरी राकिणी च रावणावरदायका ।

रामकान्ता रामप्रिया रामचन्द्रस्य वल्लभा ॥ ७७ ॥

राक्षसघ्नी राजमाता राधा रुद्रेश्वरीति च ।

रुक्मिणी रमणी रामा राज्यभुग्राज्यदायका ॥ ७८ ॥

रक्ताम्बरधरादेवी रकाराक्षररूपिणी ।

रासिस्था रामवरदा राज्यदा राज्यमण्डिता ॥ ७९ ॥

रोगहा लोभहा लोला ललिता ललितेश्वरी ।

तन्त्रिणी तन्त्ररूपा च तत्त्वी तत्त्वस्वरूपिणी ॥ ८० ॥

तपसा तपसी तारा तरुणानङ्गरूपिणी ।

तत्त्वज्ञा तत्त्वनिलया तत्त्वालयनिवासिनी ॥ ८१ ॥

तमोगुणप्रदादेवी तारिणी तन्त्रदायिका ।

तकाराक्षररूपा च तारकाभयभञ्जनी ॥ ८२ ॥

तीर्थरूपा तीर्थसंस्था तीर्थकोटिफलप्रदा ।

तीर्थमाता तीर्थज्येष्ठा तरङ्गतीर्थदायका ॥ ८३ ॥

त्रैलोक्यजननीदेवी त्रैलोक्यभयभञ्जनी ।

तुलसी तोतला तीर्था त्रिपुरा त्रिपुरेश्वरी ॥ ८४ ॥

त्रैलोक्यपालकध्वंसी त्रिवर्गफलदायका ।

त्रिकालज्ञा त्रिलोकेशी तृतीयज्वरनाशिनी ॥ ८५ ॥

त्रिनेत्रधारी त्रिगुणा त्रिसुगन्धिविलेपिनी ।

त्रिलोहदात्री गम्भीरा तारागणविलासिनी ॥ ८६ ॥

त्रयोदशगुणोपेता तुरीयमूर्तिरूपिणी ।

ताण्डवेशी तुङ्गभद्रा तुष्टिस्त्रेतायुगप्रिया ॥ ८७ ॥

तरङ्गिणी तरङ्गस्था तपोलोकनिवासिनी ।

तप्तकाञ्चनवर्णाभा तपःसिद्धिविधायिनी ॥ ८८ ॥

त्रिशक्तिस्त्रिमधुप्रीता त्रिवेणी त्रिपुरान्तका ।

पद्मस्था पद्महस्ता च परत्रफलदायका ॥ ८९ ॥

परमात्मा पद्मवर्णा परापरतराशुभा ।

परमेष्ठी परञ्ज्योतिः पवित्रा परमेश्वरी ॥ ९० ॥

पारकर्त्री पापहन्त्री पातकौघविनाशिनी ।

परमानन्ददादेवी प्रीतिदा प्रीतिवर्धिनी ॥ ९१ ॥

पुण्यनाम्नी पुण्यदेहा पुष्टिपुस्तकधारिणी ।

पुत्रदात्री पुत्रमाता पुरुषार्थपुरेश्वरी ॥ ९२ ॥

पौर्णिमापुण्यफलदा पङ्कजासनसंस्थिता ।

पृथ्वीरूपा च पृथिवी पीताम्बरस्य वल्लभा ॥ ९३ ॥

पाठादेवी च पठिता पाठेशी पाठवल्लभा ।

पन्नगान्तकसंस्था च परार्धाङ्गोश्च पद्धती ॥ ९४ ॥

हंसिनी हासिनीदेवी हर्षरूपा च हर्षदा ।

हरिप्रिया हेमगर्भा हंसस्था हंसगामिनी ॥ ९५ ॥

हेमालङ्कारसर्वाङ्गी हैमाचलनिवासिनी ।

हुत्वा हसितदेहा च हाहाहूहूसदाप्रिया ॥ ९६ ॥

हंसरूपा हंसवर्णा हिता लोकत्रयेश्वरी ।

हुङ्कारनादिनीदेवी हुतभुक्त्वा हुतेश्वरी ॥ ९७ ॥

ज्ञानरूपा च ज्ञानज्ञा ज्ञानदा ज्ञानसिद्धिदा ।

ज्ञानेश्वरी ज्ञानगम्या ज्ञानी ज्ञानविशालधीः ॥ ९८ ॥

ज्ञानमूर्तिर्ज्ञानधात्री ज्ञातव्याकरणादिनी ।

अज्ञाननाशिनीदेवी ज्ञाता ज्ञानार्णवेश्वरी ॥ ९९ ॥

महादेवी महामोहा महायोगरता तथा ।

महाविद्या महाप्रज्ञा महाज्ञाना महेश्वरी ॥ १०० ॥

मञ्जुश्री मञ्जुरप्रीता मञ्जुघोषस्य वन्दिता ।

महामञ्जुरिकादेवी मणीमुकुटशोभिता ॥ १०१ ॥

मालाधरी मन्त्रमूर्तिर्मदनी मदनप्रदा ।

मानरूपा मनसी च मतिर्मतिमनोत्सवा ॥ १०२ ॥

मानेश्वरी मानमान्या मधुसूदनवल्लभा ।

मृडप्रिया मूलसंस्था मूर्ध्निस्था मुनिवन्दिता ॥ १०३ ॥

मुखबेक्ता मूढहन्ता मृत्युर्भयविनाशिनी ।

मृत्तिका मातृका मेधा मेधावी माधवप्रिया ॥ १०४ ॥

मकाराक्षररूपा च मणिरत्नविभूषिता ।

मन्त्राराधनतत्त्वज्ञा मन्त्रयन्त्रफलप्रदा ॥ १०५ ॥

मनोद्भवा मन्दहासा मङ्गला मङ्गलेश्वरी ।

मौनहन्त्री मोददात्री मैनाकपर्वते स्थिता ॥ १०६ ॥

मणिमती मनोज्ञा च माता मार्गविलासिनी ।

मूलमार्गरतादेवी मासा (च) मानदायिनी ॥ १०७ ॥

भारती भुवनेशी च भूतज्ञा भूतपूजिता ।

भद्रगङ्गा भद्ररूपा भुवना भुवनेश्वरी ॥ १०८ ॥

भैरवी भोगदादेवी भैषज्या भैरवप्रिया ।

भवानन्दा भवातुष्टी भाविनी भरतार्चिता ॥ १०९ ॥

भागीरथी भाष्यरूपा भाग्या भाग्यवतीति च ।

भद्रकल्याणदादेवी भ्रान्तहा भ्रमनाशिनी ॥ ११० ॥

भीमेश्वरी भीतिहन्त्री भवपातकभञ्जनी ।

भक्तोत्सवा भक्तप्रिया भक्तस्था भक्तवत्सला ॥ १११ ॥

भञ्जरी भूतदोषघ्नी भवमाता भवेश्वरी ।

भयहा भग्नहा भव्या भवकारणकारिणी ॥ ११२ ॥

भूतैश्वर्यप्रदा देवी भूषणाङ्गी भवप्रिया ।

अनन्तज्ञानसम्पन्ना अकाराक्षररूपिणी ॥ ११३ ॥

अनन्तमहिमा त्र्यक्षी अजपामन्त्ररूपिणी ।

अनेकसृष्टिसम्पूर्णा अनेकाक्षरज्ञानदा ॥ ११४ ॥

आनन्ददायिनी देवी अमृता अमृतोद्भवा ।

आनन्दिनी च अरिहा अन्तस्था अग्निवच्छविः ॥ ११५ ॥

अत्यन्तज्ञानसम्पन्ना अणिमादिप्रसिद्धिदा ।

आरोग्यदायिनी आज्ञा आदिशक्तिरभीरुहा ॥ ११६ ॥

अगोचरी आदिमाता अश्वत्थवृक्षवासिनी ।

धर्मावती धर्मधरी धरणीधरवल्लभा ॥ ११७ ॥

धारणा धारणाधीशा धर्मरूपधराधरी ।

धर्ममाता धर्मकर्त्री धनदा च धनेश्वरी ॥ ११८ ॥

ध्रुवलोकगता धाता धरित्री धेनुरूपधृक् ।

धीरूपा धीप्रदा धीशा धृतिर्वाक्सिद्धिदायका ॥ ११९ ॥

धैर्यकृद्धैर्यदा धैर्या धौतवस्त्रेण शोभिता ।

धुरन्धरी धुन्धिमाता धारणाशक्तिरूपिणी ॥ १२० ॥

वैकुण्ठस्था कण्ठनिलया कामदा कामचारिणी ।

कामधेनुस्वरूपा च कष्टकल्लोलहारिणी ॥ १२१ ॥

कुमुदहासिनी नित्यं कैलासपददायका ।

कमला कमलस्था च कालहा क्लेशनाशिनी ॥ १२२ ॥

कलाषोडशसम्युक्ता कङ्काली कमलेश्वरी ।

कुमारी कुलसन्तोषा कुलज्ञा कुलवर्धिनी ॥ १२३ ॥

कालकूटविषध्वंसी कमलापतिमोहनी ।

कुम्भस्था कलशस्था च कृष्णवक्षविलासिनी ॥ १२४ ॥

कृत्यादिदोषहा कुन्ती कस्तूरीतिलकप्रिया ।

कर्पुरवासितादेहा कर्पूरमोदधारिणी ॥ १२५ ॥

कुशस्था कुशमूलस्था कुब्जा कैटभनाशिनी ।

कुरुक्षेत्रकृता देवी कुलश्री कुलभैरवी ॥ १२६ ॥

कृतब्रह्माण्डसर्वेषां काली कङ्कणधारिणी ।

कुबेरपूजिता देवी कण्ठकृत्कण्ठकर्षणी ॥ १२७ ॥

कुमुदःपुष्पसन्तुष्टा किङ्किणीपादभूषिणी ।

कुङ्कुमेन विलिप्ताङ्गी कुङ्कुमद्रवलेपिता ॥ १२८ ॥

कुम्भकर्णस्य भ्रमदा कुञ्जरासनसंस्थिता ।

कुसुममालिकावेत्री कौशिकीकुसुमप्रिया ॥ १२९ ॥

यज्ञरूपा च यज्ञेशी यशोदा जलशायिनी ।

यज्ञविद्या योगमाया जानकी जननी जया ॥ १३० ॥

यमुनाजपसन्तुष्टा जपयज्ञेफलप्रदा ।

योगधात्री योगदात्री यमलोकनिवारिणी ॥ १३१ ॥

यशःकीर्तिप्रदा योगी युक्तिदा युक्तिदायनी ।

यौवनी युगधात्री च यमलार्जुनभञ्जनी ॥ १३२ ॥

जृम्भण्यादिरतादेवी जमदग्निप्रपूजिता ।

जालन्धरी जितक्रोधा जीमूतैश्वर्यदायका ॥ १३३ ॥

क्षेमरूपा क्षेमकरी क्षेत्रदा क्षेत्रवर्धिनी ।

क्षारसमुद्रसंस्था च क्षीरजा क्षीरदायका ॥ १३४ ॥

क्षुधाहन्त्री क्षेमधात्री क्षीरार्णवसमुद्भवा ।

क्षीरप्रिया क्षीरभोजी क्षत्रियकुलवर्धिनी ॥ १३५ ॥

खगेन्द्रवाहिनी खर्व खचारीणी खगेश्वरी ।

खरयूथविनाशी च खड्गहस्ता च खञ्जना ॥ १३६ ॥

षट्चक्राधारसंस्था च षट्चक्रस्याधिदेवता ।

षडङ्गज्ञानसम्पन्ना खण्डचन्द्रार्धशेखरा ॥ १३७ ॥

षट्कर्मरहिता ख्याता खरबुद्धिनिवारिणी ।

षोडशाधारकृद्देवी षोडशभुजशोभिता ॥ १३८ ॥

षोडशमूर्ती षोडश्या खड्गखेटकधारिणी ।

घृतप्रिया घर्घरिका घुर्घुरीनादशोभिता ॥ १३९ ॥

घण्टानिनादसन्तुष्टा घण्टशब्दस्वरूपिणी ।

घटिकाघटसंस्था च घ्राणवासी घनेश्वरी ॥ १४० ॥

चारुनेत्रा चारुवक्त्रा चतुर्बाहुश्चतुर्भुजा ।

चञ्चला चपला चित्रा चित्रिणी चित्ररञ्जिनी ॥ १४१ ॥

चन्द्रभागा चन्द्रहासा चित्रस्था चित्रशोभना ।

चित्रविचित्रमाल्याङ्गी चन्द्रकोटिसमप्रभा ॥ १४२ ॥

चन्द्रमा च चतुर्वेदा प्रचण्डा चण्डशेखरी ।

चक्रमध्येस्थिता देवी चक्रहस्ता च चक्रिणी ॥ १४३ ॥

चन्द्रचूडा चारुदेहा चण्डमुण्डविनाशिनी ।

चण्डेश्वरी चित्रलेखा चरणे नूपुरैर्युता ॥ १४४ ॥

चैत्रादिमासरूपा सा चामरभुजधारिणी ।

चर्विका चर्चिका दिव्या चम्पादेवी चतुर्थचित् ॥ १४५ ॥

चतुर्भुजप्रिया नित्यं चतुर्वर्गफलप्रदा ।

चतुस्सागरसङ्ख्याता चक्रवर्तिफलप्रदा ॥ १४६ ॥

छत्रदात्री छिन्नमस्ता छलमध्येनिवासिनी ।

छायारूपा च छत्रस्था छुरिकाहस्तधारिणी ॥ १४७ ॥

उत्तमाङ्गी उकारस्था उमादेवीस्वरूपिणी ।

ऊर्ध्वाम्नायी ऊर्ध्वगाम्या ओङ्काराक्षररूपिणी ॥ १४८ ॥

एकवक्त्रा देवमाता ऐन्द्री ऐश्वर्यदायका ।

औषधीशो चौषधीकृत् ओष्ठस्था ओष्ठवासिनी ॥ १४९ ॥

स्थावरस्था स्थलचरा स्थितिसंहारकारिका ।

रुं रुं शब्दस्वरूपा च रुङ्काराक्षररूपिणी ॥ १५० ॥

आर्युदा अद्भुतप्रदा आम्नायषट्स्वरूपिणी ।

अन्नपूर्णा अन्नदात्री आशा सर्वजनस्य च ॥ १५१ ॥

आर्तिहारी च अस्वस्था अशेषगुणसम्युता ।

शुद्धरूपा सुरूपा च सावित्री साधकेश्वरी ॥ १५२ ॥

बालिका युवती वृद्धा विश्वासी विश्वपालिनी ।

फकाररूपा फलदा फलवर्ति फलप्रदा ॥ १५३ ॥

फणीन्द्रभूषणा देवी फकारक्षररूपिणी ।

ऋद्धिरूपी ऋकारस्था ऋणहा ऋणनाशिनी ॥ १५४ ॥

रेणुराकाररमणी परिभाषा सुभाषिता ।

प्राणापानसमानश्चोदानव्यानौ धनञ्जया ॥ १५५ ॥

कृकरा वायुरूपा च कृतज्ञा शङ्खिनी तथा ।

कुर्मनाम्न्युन्मीलनकरी जिह्वकस्वादुमीलना ॥ १५६ ॥

जिह्वारूपा जिह्वसंस्था जिह्वास्वादप्रदायका ।

स्मृतिदा स्मृतिमूलस्था श्लोककृच्छ्लोकराशिकृत् ॥ १५७ ॥

आधारे संस्थिता देवी अनाहतनिवासिनी ।

नाभिस्था हृदयस्था च भ्रूमध्ये द्विदले स्थिता ॥ १५८ ॥

सहस्रदलसंस्था च गुरुपत्नीस्वरूपिणी ।

इति ते कथितं ब्रह्म नाम्ना वाग्वादिनी परम् ॥ १५९ ॥

सहस्रं तु महागोप्यं देवानामपि दुर्लभम् ।

न प्रकाश्यं मयाऽऽख्यातं तव स्नेहेन आत्मभूः ॥ १६० ॥

एककालं द्विकालं वा त्रिकालं वापि भक्तितः ।

न तेषां दुर्लभं किञ्चित् त्रिषु लोकेषु वल्लभा ॥ १६१ ॥

साधकाभीष्टदो ब्रह्मा सर्वविद्याविशारदः ।

त्रिवारं यो पठिष्यन्ति नरः शक्तिधरो भवेत् ॥ १६२ ॥

पञ्चधा भाग्यमाप्नोति सप्तधा धनवान्भवेत् ।

नवमैश्वर्यमाप्नोति साधकः शुद्धचेतसा ॥ १६३ ॥

पठेदेकादशो नित्यं स सिद्धिभाजनो भवेत् ।

मासमेकं पठित्वा तु भवेद्वागीश्वरोपमः ॥ १६४ ॥

मासषट्कं पठेद्धीमान् सर्वविद्या प्रजायते ।

वत्सरैकं पठेद्यो मां साक्षात्सर्वाङ्गतत्त्ववित् ॥ १६५ ॥

गोरोचनाकुङ्कुमेन विलिखेद्भूर्जपत्रके ।

पूजयित्वा विधानेन देवीं वागीश्वरीं जपेत् ॥ १६६ ॥

सहस्रवारपठनान्मूकोऽपि सुकविर्भवेत् ।

पञ्चम्यां च दशम्यां च पूर्णमास्यामथापि वा ॥ १६७ ॥

गुरोराधनतत्त्वेनमर्चयेद्भक्तिभावतः ।

जडं हन्ति गदं हन्ति वान्तिभ्रान्तिविनाशनम् ॥ १६८ ॥

बुद्धि मेधा प्रवर्धन्ते आरोग्यं च दिने दिने ।

अल्पमृत्युभयं नास्ति भूतवेतालडकिनी- ॥ १६९ ॥

-राक्षसीग्रहदोषघ्नं कलिदोषनिवारणम् ।

आधिव्याधिजलोन्मत्त अपस्मारं न बाधते ॥ १७० ॥

प्रातःकाले पठेन्नित्यमुन्मादश्च विनश्यति ।

मेधाकान्तिस्मृतिदा भोगमोक्षमवाप्यते ॥ १७१ ॥

महाव्याधिमहामूठनिर्मूलनं भवेत्क्षणात् ।

विद्यारम्भे च वादे च विदेशगमने तथा ॥ १७२ ॥

यात्राकाले पठेगत्वाद्विजयं नात्र संशयः ।

सिद्धं मूली तथा ब्राह्मी उग्रगन्धा हरीतकी ॥ १७३ ॥

चतुर्द्रव्यसमायुक्तं भक्तियुक्तेन मानसा ।

ब्राह्मणेन लभेद्विद्या राज्यं च क्षत्रियो लभेत् ॥ १७४ ॥

वैश्यो वाणिज्यसिद्धिं च शूद्रेषु चिरं जीवितः ।

वाग्वादिनीसरस्वत्याः सहस्रं नाम यः स्मरेत् ॥ १७५ ॥

तस्य बुद्धिः स्थिरा लक्ष्मी जायते नात्र संशयः ।

यं यं कामयते मर्त्यस्तं तं प्राप्नोति नित्यशः ॥ १७६ ॥

अतः परं किमुक्तेन परमेष्ठी महात्मनः ।

सर्वान् कामान् लभेत् सद्यः लोकवश्यं तिकारकः ॥ १७७ ॥

षट्कर्मं च महासिद्धिमन्त्रयन्त्रादिगीश्वरः ।

कामक्रोधादहङ्कारदम्भलोभं विनश्यति ॥ १७८ ॥

पुरुषार्थी भवेद्विद्वान् विजित्वा तु महीतले ।

नातःपरतरं स्तोत्रं सरस्वत्या पितामह ॥ १७९ ॥

न देयं परशिष्येभ्यो भक्तिहीनाय निन्दके ।

सुभक्तेभ्यो सुशिष्येभ्यो देयं देयं न संशयः ॥ १८० ॥

इदं स्तोत्रं पठित्वा तु यत्र यत्रैव गच्छति ।

कार्यसिद्धिश्च जायन्ते निर्विघ्नं पुनरागमः ॥ १८१ ॥

इति श्रीभविष्योत्तरपुराणे श्रीनन्दिकेश्वरब्रह्मासंवादे सर्वाधारसमये हृदयाकर्षणकारणे श्री वाग्वादिनी सहस्रनाम स्तोत्रम् ॥

sri vagvadini sahasranama stotram