Skip to main content
पडताळणी प्रलंबित

श्री कमलजदयिताष्टकम्

शृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे

स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि ।

शम्भुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने

विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १ ॥

कल्यादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म

प्राबल्यं नेतुकामो यतिवरवपुषागत्य यां शृङ्गशैले ।

संस्थाप्यार्चां प्रचक्रे बहुविधनतिभिः सा त्वमिन्द्वर्धचूडा

विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २ ॥

पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा-

-त्सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् ।

देवाचार्यद्विजातिष्वपि मनुनिवहे तावकीने नितान्तं

विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३ ॥

विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले

विद्यादानप्रवीणे जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः ।

कामादीनान्तरान्मत्सहजरिपुवरान् देवि निर्मूल्य वेगा-

-द्विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४ ॥

कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं

दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् ।

सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्त्वा कृपाब्धे

विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५ ॥

मातस्त्वत्पादपद्मं न विविधकुसुमैः पूजितं जातु भक्त्या

गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान् दिव्यपद्यैः ।

मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा

विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६ ॥

शान्त्याद्याः सम्पदो वितर शुभकरीर्नित्यतद्भिन्नबोधं

वैराग्यं मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने ।

विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे

विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७ ॥

सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः

सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ ।

तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे

विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्रीकमलजदयिताष्टकं सम्पूर्णम् ।

sri kamalajadayita ashtakam