Skip to main content
पडताळणी प्रलंबित

श्री ज्ञानप्रसूनाम्बिका स्तोत्रम्

माणिक्याञ्चितभूषणां मणिरवां माहेन्द्रनीलोज्ज्वलां

मन्दारद्रुममाल्यभूषितकुचां मत्तेभकुम्भस्तनीम् ।

मौनिस्तोमनुतां मरालगमनां माध्वीरसानन्दिनीं

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १ ॥

श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां

राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् ।

रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २ ॥

कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं

कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।

कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३ ॥

भावातीतमनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं

बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् ।

भास्वत्क्षेत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ४ ॥

वीणागानविनोदिनीं विजयिनीं वेतण्डकुम्भस्तनीं

विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शाङ्करीम् ।

विद्वेषिण्यभिरञ्जिनीं स्तुतिविभां वेदान्तवेद्यां शिवां

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ५ ॥

नानाभूषितभूषणादिविमलां लावण्यपाथोनिधिं

काञ्चीचञ्चलघण्टिकाकलरवां कञ्जातपत्रेक्षणाम् ।

कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ६ ॥

मञ्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां

मन्दारद्रुममञ्जरीमधुझरीमाधुर्यखेलद्गिराम् ।

मातङ्गीं मधुरालसां करशुकां नीलालकालङ्कृतां

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ७ ॥

कर्णालम्बितहेमकुण्डलयुगां कादम्बवेणीमुमां

अम्भोजासनवासवादिविनुतामर्धेन्दुभूषोज्ज्वलाम् ।

कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ८ ॥

कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासोज्ज्वलां

गङ्गावर्तसमाननाभिकुहरां गाङ्गेयभूषान्विताम् ।

चन्द्रार्कानलकोटिकोटिसदृशां चन्द्रार्कबिम्बाननां

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ९ ॥

बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां

नीलाकारसुकेशिनी विलसितां नित्यान्नदानप्रदाम् ।

शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां

ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १० ॥

इति श्री ज्ञानप्रसूनाम्बिका स्तोत्रम् ।

sri gnana prasunambika stotram