Skip to main content
पडताळणी प्रलंबित

श्री नटेश्वर भुजङ्ग स्तुतिः

लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान्

दत्वाभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम् ।

उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं

बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः ॥ १ ॥

दिगीशादि वन्द्यं गिरीशानचापं

मुराराति बाणं पुरत्रासहासम् ।

करीन्द्रादि चर्माम्बरं वेदवेद्यं

महेशं सभेशं भजेऽहं नटेशम् ॥ २ ॥

समस्तैश्च भूतैः सदा नम्यमाद्यं

समस्तैकबन्धुं मनोदूरमेकम् ।

अपस्मारनिघ्नं परं निर्विकारं

महेशं सभेशं भजेऽहं नटेशम् ॥ ३ ॥

दयालुं वरेण्यं रमानाथवन्द्यं

महानन्दभूतं सदानन्दनृत्तम् ।

सभामध्यवासं चिदाकाशरूपं

महेशं सभेशं भजेऽहं नटेशम् ॥ ४ ॥

सभानाथमाद्यं निशानाथभूषं

शिवावामभागं पदाम्भोज लास्यम् ।

कृपापाङ्गवीक्षं ह्युमापाङ्गदृश्यं

महेशं सभेशं भजेऽहं नटेशम् ॥ ५ ॥

दिवानाथरात्रीशवैश्वानराक्षं

प्रजानाथपूज्यं सदानन्दनृत्तम् ।

चिदानन्दगात्रं परानन्दसौधं

महेशं सभेशं भजेऽहं नटेशम् ॥ ६ ॥

करेकाहलीकं पदेमौक्तिकालिं

गलेकालकूटं तलेसर्वमन्त्रम् ।

मुखे मन्दहासं भुजे नागराजं

महेशं सभेशं भजेऽहं नटेशम् ॥ ७ ॥

त्वदन्यं शरण्यं न पश्यामि शम्भो

मदन्यः प्रपन्नोस्ति किन्तेतिदीनः ।

मदर्थेह्युपेक्षा तवासीत्किमर्थं

महेशं सभेशं भजेऽहं नटेशम् ॥ ८ ॥

भवत्पादयुग्मं करेणावलम्बे

सदा नृत्तकारिन् सभामध्यदेशे ।

सदा भावये त्वां तदा दास्यसीष्टं

महेशं सभेशं भजेऽहं नटेशम् ॥ ९ ॥

भूयः स्वामिन् जनिर्मे मरणमपि तथा मास्तु भूयः सुराणां

साम्राज्यं तच्छ तावत्सुखलवरहितं दुःखदं नार्थये त्वाम् ।

सन्तापघ्नं पुरारे धुरि च तवसभा मन्दिरे सर्वदा त्व-

-न्नृत्तं पश्यन्वसेयं प्रमथगणवरैः साकमेतद्विधेहि ॥ १० ॥

इति श्री ज्ञानसम्बन्ध कृत श्री नटेश्वर भुजङ्ग स्तुतिः ।

sri nateshwara bhujanga stuti