Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य अष्टकम् (करावलम्ब स्तोत्रम्)

हे स्वामिनाथ करुणाकर दीनबन्धो

श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।

श्रीशादिदेवगणपूजितपादपद्म

वल्लीशनाथ मम देहि करावलम्बम् ॥ १ ॥

देवादिदेवसुत देवगणाधिनाथ [नुत]

देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।

देवर्षिनारदमुनीन्द्रसुगीतकीर्ते

वल्लीशनाथ मम देहि करावलम्बम् ॥ २ ॥

नित्यान्नदाननिरताखिलरोगहारिन्

तस्मात्प्रदानपरिपूरितभक्तकाम । [भाग्य]

श्रुत्यागमप्रणववाच्यनिजस्वरूप

वल्लीशनाथ मम देहि करावलम्बम् ॥ ३ ॥

क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूल-

-पाशादिशस्त्रपरिमण्डितदिव्यपाणे । [चापादि]

श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह

वल्लीशनाथ मम देहि करावलम्बम् ॥ ४ ॥

देवादिदेव रथमण्डलमध्यवेद्य

देवेन्द्रपीठनगरं दृढचापहस्तम् ।

शूरं निहत्य सुरकोटिभिरीड्यमान

वल्लीशनाथ मम देहि करावलम्बम् ॥ ५ ॥

हीरादिरत्नमणियुक्तकिरीटहार [हारादि]

केयूरकुण्डललसत्कवचाभिरामम् ।

हे वीर तारक जयाऽमरबृन्दवन्द्य

वल्लीशनाथ मम देहि करावलम्बम् ॥ ६ ॥

पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः

पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।

पट्‍टाभिषिक्त हरियुक्त परासनाथ

वल्लीशनाथ मम देहि करावलम्बम् ॥ ७ ॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या

कामादिरोगकलुषीकृतदुष्टचित्तम् ।

सिक्त्वा तु मामवकलाधर कान्तिकान्त्या

वल्लीशनाथ मम देहि करावलम्बम् ॥ ८ ॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।

ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ॥ ९ ॥

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।

कोटिजन्मकृतं पापं तत्‍क्षणादेव नश्यति ॥ १० ॥

इति श्री सुब्रह्मण्याष्टकम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

subrahmanya ashtakam