Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तोत्रम् (स्कान्दपुराणे)

सदसद्देवि यत्किञ्चिद्बन्धमोक्षात्मकं पदम् ।

तत्सर्वं गुप्तया व्याप्तं त्वया काष्ठं यथाग्निना ॥ १ ॥

सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता ।

वाचारूपेण जिह्वायां ज्योतीरूपेण चक्षुषि ॥ २ ॥

भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये ।

शरणागतदीनार्तपरित्राणपरायणे ॥ ३ ॥

त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता ।

त्वं निद्रा त्वं क्षुधा कीर्तिः सर्वभूतनिवासिनी ॥ ४ ॥

तुष्टिः पुष्टिर्वपुः प्रीतिः स्वधा स्वाहा विभावरी ।

रतिः प्रीतिः क्षितिर्गङ्गा सत्यं धर्मो मनस्विनी ॥ ५ ॥

लज्जा शान्तिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी ।

सिनीवाली कुहू राका देवमाता दितिस्तथा ॥ ६ ॥

ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा ।

गायत्री चाथ सावित्री कृषिर्वृष्टिः श्रुतिः कला ॥ ७ ॥

बलानाडी तुष्टिकाष्ठा रसना च सरस्वती ।

यत्किञ्चित् त्रिषु लोकेषु बहुत्वाद्यन्न कीर्तितम् ॥ ८ ॥

इङ्गितं नेङ्गितं तच्च तद्रूपं ते सुरेश्वरि ।

गन्धर्वाः किन्नरा देवाः सिद्धविद्याधरोरगाः ॥ ९ ॥

यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः ।

त्वत्प्रसादेन ते सर्वे संसिद्धिं परमां गताः ॥ १० ॥

तथान्येऽपि बहुत्वाद्ये न मया परिकीर्तिताः ।

आराधितास्तु कृच्छ्रेण पूजिताश्च सुविस्तरैः ।

हरन्तु देवताः पापमन्ये त्वं कीर्तिताऽपि च ॥ ११ ॥

इति श्रीस्कान्दे महापुराणे नागरखण्डे षट्चत्वारिंशोऽध्याये अम्बुवीचिराज कृतं श्री सरस्वती स्तोत्रम् ॥

sri saraswathi stotram skandapurane ambuvichiraja krutam